________________
द्वितीयोऽध्यायः।
यमौ रौ गश्चन्द्रिणी चैः॥ २०४॥ यमररगाः । चैरिति षड्भिर्यतिः । यथा
"धराभारं बिभ्रल्लीलया बाहुदण्डे,
जयत्येष श्रीमानूर्जितः क्षोणिनाथः । भुजंगीभिर्गीतैरुज्वलैयद्यशोभिर्, . बभूव प्रोदामैश्चन्द्रिणी नागभूमिः ॥ २०४.१ ।।
नौ यो गश्चन्द्रिका ॥ २०५ ॥ ननरयगाः। यथा
"निखिलकुवलयप्रपञ्चितानन्दा,
परिणतशरकाण्डपाण्डुरच्छाया ।। इह जगति चुलुक्यचन्द्र निस्तन्द्रा,
प्रसरति तव कीर्तिचन्द्रिका नित्यम् ।। २०५.१ ॥
ज्तौ रजौ गो मजुभाषिणी ॥ २०६॥ जतसजगाः। यथा
"नरेन्द्र रुष्टे त्वयि महीभुजां मतिर,
नवे पृषच्चर्मणि न चित्रवर्मणि । कटु कणन्ती लुठति शृङ्खला पद-, ___ द्वये न कान्तानुशयमञ्जुभाषिणी ॥ २०६.१ ।।
न्सौ रौ गश्चन्द्रलेखा ॥ २०७॥ नसररगाः। यथा
सुभगसुखदं मोहजालं जनानां, ___ हृदयहरणं बन्धनं लोचनानाम् । सुललितवपुः सा सखे पीयते ते, _ "विरहतमसा चन्द्रलेखेव तन्वी ॥ २०७.१ ॥
न्सौ जौ गो लयः॥ २०८॥ नसजजगाः । यथा
त्वमसि शरणं प्रसीद जगत्पते,
वितर सुतरां ममेह समीहितम् । चरणकमले जिनेश्वर तावके,
. भवतु मनसश्चिरं परमो लयः ॥ २०८.१ ।। 1) धराभारमित्यत्र चन्द्रिणी चन्द्राः सन्त्यस्यां इति चन्द्रिणी । 2) निखिलकुवलयेत्यत्र कुवलयेतिपृथ्वीमण्डलं चन्द्रविकाशिकमलं च। निस्तन्द्रेति-सोल्लासा। 3) नरेन्द्र रुष्टे इत्यत्र पृषचर्मणीति-नूतनहरिणचर्मणि मतिरासीत । व्रतग्रहणेच्छेति भावः । चित्रवर्मणीति-बहुविधवर्णसन्नाहे। 4) विरहतमसेति-विरहराहणा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org