SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । नौ त्रौ गः क्षमा ॥ २००॥ ननतरगाः । पैरिति वर्तते । यथा "अयि जड यतिबन्धो किमङ्गशौचैः, ___ क्वचिदपि सुकृतं स्यान्मुधासि मूढः। यदिह च परलोके च साधु तत्त्वं, __ शृणु कुरु हृदयस्थां क्षमामजस्रम् ॥ २००.१ ॥ मौ जौ गः श्रेयोमाला ॥ २०१॥ धैरिति वर्तते । यथा "लक्ष्मीलीलागारं विनम्रपुरंदर-, भ्राम्यद्धृङ्गश्रेणीकृतस्तवनध्वनि । नेत्रानन्दं ताम्राङ्गुलीदलबन्धुरं, श्रेयोमालां दद्याजिनेन्द्रपदाम्बुजम् ॥ २०१.१ ॥ नौ तौ गः कुटिलगतिश्छैः ॥ २०२॥ छैरिति सप्तभिर्यतिः । यथा "यदसरलतरभ्रर्विभुनालका, कुटिलगतिरतिप्रौढवागवक्रिमा । तेदियमघटि भोः कौतुकात् कामिनी, नियतमनृजुना केनचिद् वेधसा ॥ २०२.१ ।। नर्तकीत्यन्ये ॥ २०२.१॥ नौ नौ गः क्ष्मा ॥ २०३ ॥ ननमरगाः । छैरिति वर्तते । यथा "त्वदरिमृगदृशामावासप्रदानाद्, __ भयमिव परमं राजन् धारयन्तः । प्रचलति भवतः सैन्ये दिग्जयार्थ, प्रतिदिशमगमन् कम्पं क्ष्माभृतोऽमी ॥ २०३.१ ॥ ___1) अयि जडेत्यत्र यतिबन्धो इति-साध्वाभासवचनः ब्रह्मबन्धुवत् । 2) लक्ष्मीलीलेल्यत्र नेत्रानन्दमिति-नेत्राणि आनन्दयति नेत्रानन्दम् । 3) यदसरलेत्यत्र विभुनालकेति - वक्रभ्रमरालका । कुटिलेति-वक्रा । • मनृजुनेति-वक्रेण विधिना। 4) त्वदरिमृगदृशामित्यत्र त्वद्वैरिवनिंतागृहप्रदानादेव त्वत्सैन्ये घसरति सति अमी क्ष्माभृतः पर्वताः कम्पं दधुरिति भावः । १गाः .२ मूट A.३ध्वनि: B. ४ गतिरपि.५नियतमघटि .. ६क्षमा छै: GH. ७ अगमत् N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy