SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। लवणिमवारितरंगिणी किलैषा, हरति न साऽपि मुनेर्मनः सुवक्त्रा ॥ १९५.१ ॥ . अचलेत्यन्ये ॥ १९५.१॥ भीगावङ्गरुचिः॥ १९६॥ भचतुष्टयं गुरुश्च । यथा येन विधिप्रतिपक्षतयेव सदा, ___ऽकारि कृतार्थक एव दरिद्रजनः । कस्य मुदं न ददाति नृपो भरतः, ___ सोऽङ्गरुचिप्रतिषिद्धसहस्रकरः ॥ १९६.१ ॥ नौ नौ गः प्रहर्षिणी गैः॥ १९७ ॥ मनजरगाः । गैरिति त्रिभिर्यतिः । यथा "उत्प्रेसत्रिदशधनुश्छलेन वर्षा-, ___ लक्ष्म्योद्यन्मणिरुचिचित्रतोरणस्रक । पश्चेषोर्भुवनजयोत्सवैकचिह्नम् , __ आबद्धा सपदि मनःप्रहर्षिणीयम् ॥ १९७.१ ॥ ज्भौ स्जौ गो रुचिरा धैः ॥ १९८ ॥ जभसजगाः। वैरिति चतुर्भिर्यतिः । यथा "समुल्लसद्दशनमयूखचन्द्रिका-, ____तरङ्गिते तव वदनेन्दुमण्डले । सुलोचने कलयति लाञ्छनच्छविं, घनाञ्जनद्रवरुचिरालकावली ॥ १९८.१ ॥ म्तौ यसौ गो मत्तमयूरम् ॥ १९९ ॥ मतयसगाः । धैरिति वर्तते । यथा "प्रावृटलक्ष्म्या निश्चितमत्रावतरन्त्याः, _ संभूयाग्रे कल्पितकोलाहलमुच्चैः । जल्पन्तोऽमी हन्त निदाघापसरेति, प्रातीहार्य मत्तमयूराः कलयन्ति ॥ १९९.१ ॥ 1) उङ्खदित्यत्र चित्रेति-विविधवर्णा । उत्सवैकचिह्वेति-वान्ते ग्वक्र इति सूत्रेण गुरुत्वम् । 2) समुल्लसदित्यत्र मयूखचन्द्रिकेति- चन्द्रकान्तेर्नाम। 3) प्रावृटलक्ष्म्येत्यत्र संभूयेति - मिलित्वा । १ लक्ष्योछन् N. २ मयूष• P... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy