SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । सा मणिमाला चैः ॥ १९० ॥ सा पुष्प विचित्राचैः षद्भिर्यतिश्चेन्मणिमाला । यथा - " सन्तोषधनानां का नाम समृद्धिश्, चारित्रसुधाप्तौ धिक्कामपिपासाम् । निर्बीजसमाधावास्तां सुरसौख्यं, जैनी यदि कण्ठे वाक् किं मणिमाला || १९०.१॥ स्यौ स्यौ केकिरेवम् ॥ १९९ ॥ सयसयाः । यथा - " पथिक प्रयाहि त्वरयैव नो चेत्, पुरतः समुज्जृम्भिणि मेघकाले । भवतो द्विजिह्वस्य हरिष्यतेऽसून, समदध्वनत्केकिरवः प्रचण्डः ॥ १९१.१ ॥ निसौ ह्रीः ॥ १९२॥ निरिति नगणत्रयं सच । यथा - " सितमहसि धवलयति धरां, सुभग कुरु यदिह समुचितम् । तव विशदगुणहृतहृदया, ह्रियमपि परिहरति सुतनुः ।। १९२.१ ।। सौ स्यौ कोलः ॥ १९३ ॥ जससयाः । यथा - " चुलुक्यनृपते त्वयि बिभ्रति क्ष्मां विहाय धरणीधरणप्रयासम् । पयोधिपुलिने रमतां यथेच्छं स संप्रति चिराय पुराणकोलः । १९३.१ ॥ १२॥३६॥ अतिजगत्यां नतिगा उर्वशी ॥ १९४ ॥ नगणः तगणत्रयं गुरुश्च । यथा Jain Education International "अजन निर्योषितामस्तु वंशे सतां, मलिनिमानं स्वशीलेन यास्तन्वते । भगवतो वासुदेवात् प्रसूतापि हि, त्रिदशवेश्यात्वमङ्गीचकारोर्वशी ॥। १९४.१ ॥ न्जौ नौ गः सुवक्त्रा ।। ९९५ ॥ नजजरगाः । यथा "हृतहृदयः खलु यद्विलासलक्ष्म्या, रतिमपि पुष्पशरस्तृणाय मेने । 1 ) संतोषधनेत्यत्र निर्बीजसमाधाविति - निरालम्बध्याने । 2 ) पथिकप्रि ( प्र ) येति - पुरतः इति हेत्वलंकारोऽत्र । द्विजिह्वस्येति - द्वितीया जिह्वा यस्यात्रकस्येत्यर्थः ( कलत्रस्येत्यर्थ: - Tippana in B ) । 3 ) सितमहसीत्यत्र हियमपीति - मित्रं प्राह । 4 ) चुलुक्येत्यत्र पुराणकोल आदिवराहः । 5 ) अजननिर्योषितामित्यत्र अनुत्पत्तिरेव भूयात् । उर्वशी हि वासुदेवस्य ऊरौ जातेति श्रुतिः । 6 ) हृतहृदय इत्यत्र किलेति संभावनायाम् । १ मणिमलो A. २ केकीरवं N. ३ हृदहृदया B. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy