________________
द्वितीयोऽध्यायः।
ज्रज्रा विभावरी ॥ १८४॥ जरजराः । यथा"पयोनिधेरवाप्य तोयसंपदं, मदाद् बलाहकेन पश्य यत् कृतम् । य एष तस्य हर्षकारणं सुतः, स एव संवृतो विभावरीपतिः ॥ १८४.१ ॥
वसन्तचत्वरमित्यन्ये ॥ १८४.१ ॥ यन्याः कुमुदिनी ॥१८५॥ रयनयाः । यथा"बोधितापि रम्यैः करनिकरैस्ते, हासलेशमासादयति न यस्मात् । मुश्च मुश्च तस्मादिह नलिनीय, रोहिणीपते हन्त कुमुदिनीतः ॥ १८५.१ ॥
भ्तौ सौ ललना डैः ॥ १८६॥ भतनसाः । डैरिति पञ्चभिर्यतिः । यथा"रम्यनितम्बां नवतनुलतिका, संभृततृष्णां गजगतिरुचिराम् । विन्ध्यधरित्री तव नृप रिपवः, संप्रति भेजुर्न तु निजललनाम् ॥ १८६.१ ॥
. नौ ौ कामदत्ता ॥ १८७॥ ननरयाः। यथा"निकृतिकलुषया धिया वितीर्णं, बहुतरमपि निष्फलत्वमेति । सुकृतममृतकारणं प्रसूते, ध्रुवमिह कणिकापि कामदत्ता ॥ १८७.१ ॥
नो रिर्मेघावली ॥ १८८॥ रिरिति रंगणत्रयम् । यथास्तनितघोरघोषाट्टहासाकुला, तरलतारविद्युच्छटालोचना । विरहिणीजनप्राणघातोद्यता, नभसि राक्षसीयं न मेघावली ॥ १८८.१ ॥
वसन्तेति कश्चित् ॥ १८८.१ ॥ त्यौ त्यो पुष्पविचित्रा ॥ १८९ ॥ तयतयाः। यथा"भ्राम्यद्धमरव्याकीर्णोद्धरगन्धा, मन्दारवती सन्तानप्रसवाट्या । नाभेयजिनस्योद्दामा सुरनाथैर्, दिष्टथा रचिता पूजा पुष्पविचित्रा ॥ १८९.१ ।।
1) पयोनिधेरित्यत्र संवृतः प्रच्छादितः। 2) बोधितापि रम्यरित्यत्र हासलेशमिति - विकाशः हास्य च । कुमुदिनीतः इति-इयं नलिनी यस्मात् हासलेशमपि नासादयति तस्मात् मुञ्च मुञ्च इति संबन्धः। इतः प्रदेशे। 3) रम्यनितम्बामित्यत्र गिरिमध्यं नितम्बस्थलं च । पक्षे नवाः तन्व्यः कृशाः लतिकाः यस्याम् । संभृता पोषिता तृष्णाभिलाषः पिपासा च यया सा ताम्। 4) निकृतिकलुषयेत्यत्र निकृतिर्धिक्कारः । अमृतेति-मोक्षकारणम् । कामदत्तेति-इच्छया दत्ता। 5) भ्राम्यद्रमरेत्यत्र दिष्ट्येति-भाग्येन ।
१ कुमुदिनीव N. २ निःफल० AB. ३ हासातुला N. ६ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org