SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । त्वत्सेनाभिः कृतरिपुधामप्लोषे, दृष्ट्वा व्योम्नि स्फुरदुरुधूमस्तोमम् । । ग्रीष्मेऽप्युत्काः सपदि मयूरा राजन् , शब्दायन्ते जलधरमालाभ्रान्त्या ॥ १७८.१ ।। कान्तोत्पीडेत्यन्ये ॥ १७८.१॥ न्जौ भ्यौ नवमालिनी जैः॥१७९॥ नजभयाः। जैरित्यष्टभिर्यतिः । यथा"कलयति वैरिभूमिपतिलक्ष्मी, परिमलहोरिकीर्तिकुसुमौघम् । सपदि ददाति तुभ्यमनवा, नृप नवमालिनीयमसिलेखा ॥ १७९.१ ॥ ... जो ज्रौ मालती ॥ १८०॥ . नजजराः । यथा"भ्रमर सखे व्रज यत्र सा प्रिया, कथय दशामिति मे तदप्रतः । अभिनवपुष्पितरम्यमालती,, परिमलमुल्लसितं पिबाथवा ॥ १८०.१ ॥ __ वरतनुरित्यन्ये ॥ १८०.१ ॥ नौ रौ प्रमुदितवदना ॥ १८१ ॥ यथा"स्खलितवचसि भर्तरि भृकुटिं, प्रियसखि घटयेत्यपि प्रेरिता । विदितरसविभ्रमा बालिका, प्रमुदितवदना भवत्युन्मुखी ।। १८१.१ ॥ चञ्चलाक्षीत्यन्ये । गौरीत्यपरे ॥ १८१.१ ॥ सा प्रभा छैः ॥ १८२॥ सा प्रमुदितवदना छैः सप्तभिर्यतिश्चेत् प्रभा नाम । यथाप्रचुरविभवता नवं यौवनं, विमललवणिमा समग्राः कलाः । सकलमपि सखे तदेतन्मुधा, यदि मृगनयना न हेमप्रभा ॥ १८२.१ ॥ जंज्यास्तामरसम् ॥ १८३ ॥ नजजयाः। यथा"सततविकाससमुद्धरशोभ, सकलकलङ्ककलापरिमुक्तम् । तव वदनं मदिराक्षि किमेतद् , भवति न तामरसं न च चन्द्रः ॥ १८३.१ ॥ कमलविलासिनीत्यन्ये ॥ १८३.१ ॥ . 1) कलयति वैरीत्यत्र अङ्गीकरोति । अन्या मालिनी परेषां अर्थ गृह्णाति तत एभ्य एव कुसुमानि दत्ते । इयं मालिनी शत्रूणां लक्ष्मी लाति तुभ्यं चारुकीर्तिकुसुमौघं वितरति इति नवत्वमस्याः। 2) भ्रमरसख इत्यत्र दशामिति - दशामवस्थाम् । पिबाथवेति-तवापि मालतीरसं पिबतोऽन्तरायो भविष्यतीति पिब । 3) स्खलितवचसि इत्यत्र अन्यस्त्रीनामोच्चारणात् गोत्रस्खलितेऽपि कृते प्रियेण, अकुपितत्वेन उन्मुखी । 4) सततविकासेत्यत्र तामरसं सततं विकासि चन्द्रश्च कलङ्कपरिमुक्तो न भवति । १ प्युक्ताः N. २ हारी कीर्ति• N. ३ अविहित B. ४ अपरः A. ५ नजज्याः P. ६ विकाश AP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy