SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः तावत्कन्या स्वलज्जातो वस्त्राभ ( व१)रणपूर्वकम् । सखीभिः सपरीवारा गता गर्भगृहान्तरे ||४०६ || राजा शुकं समादाय सहर्षः सैन्यमागतः । प्रशंसां शुकराजस्य कुरुते स्म मूहुर्मुहुः ||४०७ || राजवर्गीय लोकाग्रे कथयामास भूपतिः । शुकराजो मया प्राप्तो नूनं चिन्तामणीसमः || ४०८ || कन्या जिनार्चनं कृत्वा स्नेहाकुलितमानसा । शून्यचित्ता गृहे प्राप्ता सखीभिः परिवारिता ||४०६ ॥ विकृतां विह्वलां कन्यां ज्ञात्वा त्रैलोक्यसुन्दरी । पृच्छति स्म सखीवर्ग पुत्री ' चिन्तातुरा कथम् ॥ ४१० ॥ तद्वचान्तं सखीदिष्टं ज्ञात्वा राज्ञी न्यवेदयत्" | भूपतेरग्रतः प्रायोभिप्रायं स्वसुताकते ॥ ४११ ॥ भूपेनोक्तं ततो भव्यं जातं मन्ये हृदीप्सितम् । "करस्खलितघृत्पूरं पतितं शर्करोपरि ||४१२ || उग्रसेनस्ततो राजा सुतापा णिग्रहोत्सुकः । चन्द्रसेननृपस्थान्ते जगाम' सपरिच्छदः ||४१३ || चन्द्रावतीपतिस्तावद्दष्ट आस्थानमण्डपे । चामरैर्वीज्यमानस्तु वत्रेणालंकृतः स्थितः || ४१४ || सरसाः सगुणाः सौम्या वामदक्षिणयोर्बुधाः । अनेकमन्त्रिसामन्तालंकृतो दृष्ट उन्नतः ||४१५|| उग्रसेनः सभामध्ये संनिधौ यावदागतः । तावच्चन्द्रावतीशोषि प्रोत्थितः संमुखस्ततः ॥ ४१६ || " स्नेहेन च समालिङ्गय नमस्कारपुरःसरम् | प्रेम्ले (म्) कस्मिन्विष्टरेपि निविष्टं भूपतिद्वयम् । ४१७॥ दछ 1. B3 °च॑ । 2, B1, B2 and BJ च। 3 B1 B and B3 कम्पयत्येव । 4. B', 1 B° and Ba °ते च । 5. P1 and P: पुत्रि । 6. B1, Band B नृपायतः । 7 RI, B and 33 कथयामासभिप्रायं सुताया यन्मनोगतम् 8 B1, Ba and B करा" । 9.13 1 2 and R& गछति । 10. Bt and Ba म्याः पण्डिता वामदक्षिणे 11 संनियो। 12 Ba omits this verse, but repeats the next verse Bi and B: पाववापाति
SR No.090107
Book TitleBhoj Charitra
Original Sutra AuthorN/A
AuthorRajvallabh, B C H Chabda, Shankar Narayanan
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages193
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy