________________
VU
मोजीने दृष्टश्चन्द्रावतीभूपः' प्रत्यक्ष इव वासवः । पुलिन्द्रस्य फरासीनः शुक आशीर्वचो ददौ ॥१२॥ यथा-- स शिवः पातु वो नित्यं गौरी यस्याङ्गसङ्गता । आरूढा हेमवल्लोष राजते राजते तरौ ॥१३॥ शुकस्याशीबचः श्रुत्वा चन्द्रसेनो नरेश्वरः । सविस्मयोथ' संजातः सभा सर्वा चमत्कृता ।।१४।। तिर्यङ्ङरण्यवासी च पुलिन्द्रः सह संगमात् । वाणी गीर्वाणां ब्रूते विस्मयाद्वदति स्म राट् ॥१५॥ शुकराज ! पुनर्वाचं श्रावय स्त्रां सुधामयीम् । अहं तु श्रोतुमिच्छामि सभा सर्वापि वाञ्छति ॥१६।। यथा'समामाङ्गणमागतेन भक्ता चापे समारोपिने
देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भृमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीयां च लोकत्रयम् ।।१७।। इति कीरस्तुति श्रुत्वा हर्षपूरितमानसः । भूपोप्युवाच भिल्लस्य कीरमूल्यं समादिश ॥१८॥ भिल्लोषग्देव ! निर्मूल्यमूल्ये किं कथ्यते शुके । पुनर्वदति भूपालः शुकवाक्यप्रमाणताम् ॥१६|| "भिल्लोबोचदसौ देव ! भवनां ढोकिनः शुकः । दीनारदशकं दत्त" पुलिन्द्राणामिदं धनम् ॥२०॥ राज्ञा तस्य शुकस्यार्थे कारिनं स्वर्णपञ्जरम् । रक्ष्यते च स्वपार्श्वस्थो न दृरीक्रियते कचित् ॥२१॥ विद्वजनाधिको गोष्ठयां मन्त्र मन्त्रीश्वराधिकः । कुरुते भुभुजा सार्थ शुकराजो यथोचितम् ॥२२॥
1. BI, B2 and 83 बलीयोन्द्रः। 2. BI, B and B• जले। 3. 131, B2 and B टाकामाशों। 4. BI, Bul B पि। 5. UI, Baal Ba चाचा गाणिकां । 6. Bt, RP and B. वक्ते नपः। 7. यथा-पाव्यम्-। 8. BI, Brind B मुल्य चेत्कल्ल्यते । ... B प्रमाणतः । 10. BI, Band Bाया। 11. B1, 12 and युक्त । 12.31 Bound Bश्विानिशम ।