________________
भोजचरित्र विनयेन घनेनाथ स्तुतस्तेन नरेश्वरः' । नीतः स्थाने निजे यत्र विद्यते नाभिनन्दनः ॥३८|| पश्य भूपाल' ! देवोयं भुक्तिमुक्तिफलप्रदः । तं नमस्कृत्य पूर्व तु पश्चात्कार्य ममादिश |॥३६॥ वसा तस्प भूनाथो गत्या गर्भगृहान्तरे । नमस्कृत्यास्तवीभक्त्या वासनापूर्णमानसः ॥४०॥ जिनालयाबहिः" प्राप्तः कथयामास राक्षसः । मया ज्ञातोस्त्यभिप्रायो' मातङ्गया प्रेषितस्त्वकम् ॥४१॥ पृच्छसि त्वं मया राज्यं प्राप्तं पुण्येन केन हि । तव हृद्गतसंदेहं कथयाम्युपविश्यताम् ॥४२॥ एकाग्रं मानसं कृत्वा श्रयतां मद्वचस्त्वया । तिष्ठाम्यत्र बने राजन ! सुजन् पूचंभवार्जितम् ॥४३॥ एकस्मिन्दिवसेौव वन्दनाय जिनेशितः । पश्चज्ञानघर कोपि समागान्मुनिपुङ्गवः" ॥४४॥ प्रविश्य गर्भगेहस्थः स्तवीति जिनपुङ्गवम् । विनयात्परया भकत्या भूभागन्यस्तमस्तकः ॥४॥" नमस्ते परमज्योतिर्नमस्ते मोक्षदायिने । नमस्ते लोकनाथाय "कृतानन्द ! नमोस्तु ते ॥४६॥ एवं सोनेकधा स्तुत्वा प्राप्तो देवगृहाबहिः । तावन्मया नमन्मौलि वन्दितो मुनिपुङ्गवः ॥४७॥ करौ च कुड्मलीकृत्य पृष्टं विनयतो धनात् । मया पूर्वभवे किं किं दुष्कर्मोपार्जनं कृतम् ॥४८॥ येन दुःक(दुष्क)योगेन जातोहं "रक्षसां कुले । जुत्तपापीडितो नित्यमसंतुष्टो भ्रमाम्यहम् ॥४|| मुनिः प्राह तदा भद्र! शृणु पूर्वभवां कथाम् । एकचित्तः स्थिरो भून्या कथयामि तवाग्रतः ॥५०||
1. BI, BELB स्तुतस्ते (एच) नरपतयः । '. 131, Band B3 भूपेन्द्र !। 8. 131, R: and 13 देवगृहाबाहः । 4.BIBurl 134 गया ज्ञानमभिप्राय । 5.1313 and B प्रेषितांत्र भोः। 6. BI, B and B संप्राप्त केन पुण्यतः । 7. 131, 13 and B । 8. B1, B and B सेप्यत्र । 9. Bt 132 unu B जिनेम्वरम् । 11. I31 10 13- ममायानो मुनीश्वरः। 11. B3 omits this verse | 12. 131 चिदानन्द । 1: Pund p: दुःक। 14. BI, IRe and us राक्षसे । 15. B वाम्यहम् ।