________________
- प्रमाणपरीक्षा ।
उत्पादव्ययध्रौव्ययुक्तं सत् इति वचनात् । नच तदेकांतेन सुनयविषयेण व्यभिचारि तस्य वस्त्वंशत्वात् । सहचरं लिंगं यथाअस्ति तेजसि स्पर्शसामान्यं (2) न रूपसामान्यस्य कार्य कारणं वा नापि रूपसामान्यं स्पर्शसामान्यस्य तयोः सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धेः । एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य सहचरत्वं निवेदितमेकसामग्रयधीनस्यैव प्रतिपत्तव्यं समवायिनः कारणत्ववत् । पूर्वचरं लिंग यथोदेष्यति शकटं कृत्तिकोदयात् इति पूर्वपूर्वचराद्यनेनैव संगृहीतं । उत्तरचरलिंगं यथा-उदगाद्भरणिः कृतिकोदयात् इति, उत्तरोत्तरचरमेतेनैव संगृह्यते तदेतत्साध्यस्य विधौ साधनं षड्विधमुक्तं । प्रतिषेधे तु प्रतिषेध्यस्य विरुद्धं कार्य विरुद्धं कारणं विरुद्धाकार्यकारणं चेति । तत्र विरुद्धकालिंग-नास्त्यत्र शीतस्पर्शो धूमात् इति शीत . स्पर्शेन हि विरुद्धो वन्हिः तस्य कार्य धूम इति विरुद्धकारणं । नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति विरुद्धं ह्यसत्येन सत्यं तस्य कारणं सम्यग्ज्ञान यथार्थज्ञानं रागद्वेषरहितं तत्कुतश्चित्सुक्ताभिधानादेः प्रसिद्धयत् सत्यं साधयति । तच्च सिद्धयदसत्यं प्रतिषेधयति इति । विरुद्धाकार्यकारणं चतुर्विधं-विरुद्धव्याप्यं विरुद्धसह. चरं विरुद्धपूर्वचरं विरुद्धोत्तरचरं चेति तत्र विरुद्धव्याप्यं नास्त्यत्र शीतस्पर्शः, औष्ण्यात् । औष्ण्यं हि व्याप्यमग्नेः स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येनेति । विरुद्धसहचरं नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धं तत्सहचरं सम्यग्दर्शनमिति । विरुद्धपूर्वचरं नोदेष्यति मुहूर्ताते शंकटं रेवत्युदयात्। शकटोदयविरुद्धो ह्यश्वन्युदयः तत्पूर्वचरो रेवत्युदयः। विरुद्धोत्तरचरं-मुहूर्तात् प्राङ्गादगाद्भराणः पुष्पोदयादिति । भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्पोदय इति । तान्येतानि साक्षात्प्रतिषेध्यविरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनानि षडभिहितानि। परंपरया तु कारणविरुद्धकार्य व्यापकविरुद्धकार्य कारणव्यापकविरुद्धकार्य व्यापककारणविरुद्धकार्य कारणविरुद्धकारणं व्यापकविरुद्धकारणं कारणव्यापकविरुद्धकारणं व्यापककारणविरुद्धकारणं चेति तथा कारणविरुद्धव्याप्यादीनि कारणविरुद्धचहचरादीनि च यथाप्रतीति वक्तव्यानि । तत्र कारणविरुद्धकार्य-नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमात् इति प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निः तत्कार्यं धूम इति । व्यापकविरुद्धकार्ये नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पर्शविशेषो धूमात् इति शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापकं शीतसामान्यं तद्विरुद्धोऽग्निः तस्य कार्य धूम इति । कारणव्यापकविरुद्धकार्य नास्त्यत्र हिमत्वव्याप्तहिमाविशेषजानतरोमहर्षादिविशेषो धूमात् इति रोमहर्षादिविशेषस्य हि कारणं हिमविशेषस्तस्य व्यापकं हिमत्वं तद्विरुद्धोग्निः तत्कार्यं धूम इति । व्यापककारणविरुद्धकार्य-नात्यत्र शीतस्पर्शविशेषस्तव्यापकशीतस्पर्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति शीतस्पर्शविशेषस्य हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिमं तद्विरुद्धोग्निस्तत्कार्य धूम इति । कारणावरुद्धकारणं-नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणात् मिथ्याचरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं । तत्त्वार्थोपदेशश्रवणे सत्यपि कस्य चित्तत्त्वज्ञानासंभवाद् ग्रहणवचनं । तत्त्वार्थानां श्रद्धानपूर्वकं-अवधारणं हिं ग्रहणमिष्टं, अन्यथास्य ग्रहणाभासत्वात् । मिथ्याचरणस्य वात्र नास्तिता साध्यते न पुनरनाचरणस्य तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासंभवात्--अनाचारस्य प्रसिद्धः । न तु मिभ्याचरणमप्यस्य संभवति तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति । तथा व्यापकविरुद्धकारणं लिंग-नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणात् इति आत्मनि मिथ्याज्ञानविशेषस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं सत्यज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं यथार्थोपवर्णितमिति । कारणव्यापकविरुद्धकारणं-नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणादिति अत्र मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं, तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति प्रत्येयं । व्यापककारणविरुद्धकारणं लिगं नास्त्यस्य मिथ्याचरणविशेषस्तत्त्वार्थोपदशग्रहणादिति मिथ्याचरण विशेषस्य हि व्यापकं मिथ्याचरणसामान्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदे
(?) रूपसामान्यात् । स्पर्शसामान्य हि इति शोधितं ।
१०