SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायांशग्रहणमिति तथा कारणविरुद्धव्याप्यं लिंग न संति सर्वथैकोतवादिनः प्रशमसंवेगानुकंपास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषात् । प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनसामान्य तेन व्याप्यं मिथ्यादर्शनं वैपर्यासिकविशिष्टमिति । व्यापकविरुद्धव्याप्यं-न संति स्याद्वादिनो वैपर्यासिकादिमिध्यादर्शनविशेषाः सत्यज्ञानविशेषात् इति वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य व्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धव्याप्यं-न संत्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति, प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषः तस्य व्यापकं सम्यग्दर्शनसामान्य तद्विरुद्धं मिथ्याज्ञानसामान्यं तेन व्याप्तो मिथ्याज्ञानविशेष इति । ब्यापककारणविरुद्ध व्याप्य लिंगं न संत्यस्य तत्त्वज्ञानविशेषाः मिथ्यार्थोपदेशग्रहणविशेषात् । तत्त्वज्ञानविशेषाणां व्यापकं तत्त्वज्ञानसामान्यं तस्य कारणं तत्त्वार्थोपदेशग्रहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्यं तेन व्याप्तो मिथ्यार्थोपदेशग्रहणविशेष इति । एवं कारणविरुद्धसहचरं लिंगं-न संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्धसहचरं-न सत्यस्य मिथ्यादर्शनविशेषाः सम्यग्ज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिध्यादर्शनसामान्यं तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरंन संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्यग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापककारणविरुद्धसहचरं न सत्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारणं दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । तदेत्सामान्यतो विरोधिलिंगं, प्रपंचतो द्वाविंशतिप्रकारमपि भूतमभूतस्य गमकमन्यथानुपपन्नत्वनियमनिश्चयलक्षणत्वात् प्रतिपत्तव्यं । भूतं भूतस्य प्रयोजकं कार्यादि षट्प्रकारं पूर्वमुक्तं । तदित्थं विधिमुखेन विधायक प्रतिषेधमुखेन प्रतिषेधकं च लिंगमभिधाय सांप्रतं प्रतिषेधमुखेन विधायक प्रतिषेधकं च साधनमभिधीयते तत्राभूतं भूतस्य विधायकं-यथाअस्त्यस्य प्राणिनो व्याधिविशेषो निरामयचेष्टानुपलब्धेरिति । तथा:-अस्ति सर्वथैकांतवादिनामज्ञानादिर्दोषः युक्तिशास्त्राविरुद्धवचनाभावात् इति अस्त्यस्य मुनेराप्तत्वं विसंवादकत्वाभावात् । अभूतस्य तालफलस्य पतनकर्म वृंतसंयोगाभावात् इति वहुधा दृष्टव्यं । तथैवाभूतमभूतस्य प्रतिषेधस्य प्रतिषेधकं यथानास्त्यत्र शवशरीरे बुद्धिापारव्याहाराकारविशेषानुपलब्धेरिति कार्यानुपलब्धिः । न संत्यस्य प्रशमादीनि तत्त्वार्थश्रद्धानानुपलब्धेरिति कारणानुपलब्धिः । नास्त्यत्र शिंशपा वृक्षानुपलब्धेरिति व्यापकानुपलब्धिः । नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनाभावात् इति सहचरानुपलब्धिः । न भविष्यति मुहाते शकटोदयः कृत्तिकोदयानुपलब्धेरिति पूर्वचरानुपलाब्धिः । नोदगाद्भरणिर्मुहूर्तात्प्राकृत्तिकोदयानुपलब्धेरिति उत्तरचरानुपलब्धिः । एवं परंपरया कारणाद्यनुपलब्धिः व्यापकव्यापकानुपलब्ध्यादिकमपि बहुधा प्रतिषेधद्वारेण प्रतिषेधसाधनमवधारणीयं । अत्र संग्रहश्लोकाः स्यात्कार्य कारणव्याप्यं प्राक् सहोत्तरचारि च लिंगं तल्लक्षणव्याप्तेभूतं भूतस्य साधकं ॥ १ ॥ षोढा विरुद्धकार्यादि साक्षादेवोपवर्णितं लिंगं भूतमभूतस्य लिंगलक्षणयोगतः ॥२॥ पारंपर्यात्तु कार्य स्यात् कारणं व्याप्यमेव च सहचारि च निर्दिष्टं प्रत्येकं तच्चतुर्विधं ॥ ३ ॥ कारणाविष्ठकार्यादिभेदेनोदाहृतं पुरा यथा षोडशभेदं स्यात् द्वाविंशतिविधं ततः ॥४॥ लिगं समुदितं ज्ञेयमन्यथानुपपत्तिमत्
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy