________________
७२
सनातनजैनग्रंथमालायांसंभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं
हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः ।।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ।। १॥ तदप्यपरीक्षिताभिधानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः स्वयमसिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनैकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चयरूपत्वात् । तस्य चासिद्धव्यभिचारिण विरुद्धे च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनाभावनियमप्रपंचत्वात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्वान्वयव्यतिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनाभावनियमप्रपंच एव बाधितविषयस्य सत्प्रतिपक्षितस्य चाविनाभावनियमानिश्चयात् पक्षाव्यापकानन्वयाव्यतिरेकवत । न पक्षधर्मत्वे सत्येव साधनस्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभावात् परस्य सर्वानित्यत्वसाधनवत् । नच व्यतिरेकमात्रे सत्यपि व्यभिचारिविवेके श्यामत्वे साध्येतत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचत्वे कालाकाशादीनामपि तत्प्रपंचत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु समानं तेषामपि साधारणत्वाद्धत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यबाधितविषयत्वे सत्प्रतिपक्षे चाविनाभावनियमानवलोकात् । पक्षव्यापकत्वान्ययव्यातरकवत् । स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत् इत्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावात् अवाधितविषयत्वसिद्धावपि अविनाभावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यासत्वात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं
अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं
नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानं तस्मिन्सति त्रिलक्षणस्य पंचलक्षणस्य प्रयोगो निवार्यते एवेति प्रयोगपरिपाट्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चाभ्यधायि कुमारनंदिभट्टारकैः
अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते
प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ।। १ ।। इति तच्च साधनं एकलक्षणं सामन्यादेकावधमपि विशेषतोऽतिसंक्षेपाविविधं विधिसाधनं संक्षेपात्रिविधमभिधीयते कार्य कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति प्रकारांतरस्यात्रैवांतर्भावात् । तत्र कार्य हेतुः, अग्निरत्र धूमात् इति कार्यकार्यादेरवांतर्गतत्वात् । कारणं हेतु:-अस्त्यत्र छाया छत्रात् इति कारणकारणादेरत्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन प्रतिबंधवैकल्यसंभवाद्व्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकत्वं वा कार्याविनाभाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विधंव्याप्यं सहचरं पूर्वचरं, उत्तरचरं चेति । तत्र व्याप्यंलिंगं व्यापकस्य यथा सर्वमनेकांतात्मकं सत्त्वादिति सत्त्वं हि वस्तुत्वं