SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७२ सनातनजैनग्रंथमालायांसंभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः ।। असिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ।। १॥ तदप्यपरीक्षिताभिधानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः स्वयमसिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनैकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चयरूपत्वात् । तस्य चासिद्धव्यभिचारिण विरुद्धे च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनाभावनियमप्रपंचत्वात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्वान्वयव्यतिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनाभावनियमप्रपंच एव बाधितविषयस्य सत्प्रतिपक्षितस्य चाविनाभावनियमानिश्चयात् पक्षाव्यापकानन्वयाव्यतिरेकवत । न पक्षधर्मत्वे सत्येव साधनस्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभावात् परस्य सर्वानित्यत्वसाधनवत् । नच व्यतिरेकमात्रे सत्यपि व्यभिचारिविवेके श्यामत्वे साध्येतत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचत्वे कालाकाशादीनामपि तत्प्रपंचत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु समानं तेषामपि साधारणत्वाद्धत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यबाधितविषयत्वे सत्प्रतिपक्षे चाविनाभावनियमानवलोकात् । पक्षव्यापकत्वान्ययव्यातरकवत् । स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत् इत्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावात् अवाधितविषयत्वसिद्धावपि अविनाभावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यासत्वात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानं तस्मिन्सति त्रिलक्षणस्य पंचलक्षणस्य प्रयोगो निवार्यते एवेति प्रयोगपरिपाट्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चाभ्यधायि कुमारनंदिभट्टारकैः अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ।। १ ।। इति तच्च साधनं एकलक्षणं सामन्यादेकावधमपि विशेषतोऽतिसंक्षेपाविविधं विधिसाधनं संक्षेपात्रिविधमभिधीयते कार्य कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति प्रकारांतरस्यात्रैवांतर्भावात् । तत्र कार्य हेतुः, अग्निरत्र धूमात् इति कार्यकार्यादेरवांतर्गतत्वात् । कारणं हेतु:-अस्त्यत्र छाया छत्रात् इति कारणकारणादेरत्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन प्रतिबंधवैकल्यसंभवाद्व्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकत्वं वा कार्याविनाभाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विधंव्याप्यं सहचरं पूर्वचरं, उत्तरचरं चेति । तत्र व्याप्यंलिंगं व्यापकस्य यथा सर्वमनेकांतात्मकं सत्त्वादिति सत्त्वं हि वस्तुत्वं
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy