________________
प्रमाणपरीक्षा। नत्वं साधनस्य । ननु साकल्येन साध्यनिवृत्तौ साधननिवृत्तरसंभवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावात न सम्यक् साधनमेतत् इति चत् तर्हि कात्स्न्येन साध्यनिवृत्तौ साधननिवृत्तेनिश्चयएवैकं साधनलक्षणं सएवा न्यथानुपपत्तिनियमनिश्चयः स्याद्वादिभिः साधनलक्षणमभिधीयते तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधनस्य सम्यक्त्वप्रतीतेः उदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः । न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्ष धर्मत्वं । यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्त्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति मतं तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महानसधूमो महोदधावग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । अथेत्थमेतस्य साधनस्य पक्षधर्मत्वसिद्धावपि न साध्यसाधनसामर्थ्यमविनाभाविनियमनिश्चयस्याभावादित्यभिधीयते तर्हि स एव सम्धनलक्षणमलणं परीक्षादक्षैरुपलक्ष्यते ।
योप्याह शकटोदयो भाविकारणं कृत्तिकोदयस्य तदन्वयव्यतिरेकानुविधानात् सति हि स्वकाले भविष्यति शकटोदये कृत्तिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकात्तिकोदययोः कार्यकारणभावं साधयति विनष्टवर्तमानवदेव । यथैवोदगाद्भरणिः कृत्तिकोदयादित्यत्रातीतो भरण्युदयः कारणं, कृत्तिकोदयस्तत्कायं स्वकालेऽतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच्च तदन्वयव्यतिरेकानुविधानात कार्यकारणभावः । तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोायस्य समानत्वात् । नचैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितयं विरुध्यते भिन्नदेशयोरिव भिन्नकालयोरपि सहकारित्वविरोधात् । सहैकस्य कार्यस्य कारणं हि सहकारित्वनिबंधनं नाभिन्नकालत्वमभिन्नदेशवत् । नचातीतानागती भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणं पूर्वकृत्तिकालक्षणस्यानुदयमापन्नस्य तदुपादानकारणत्वसंप्रतिपत्तेः ? इति सोऽपि न प्रातीतिकवचनः तथा प्रतीत्यभावात् । कार्यकालमप्राप्नु वतोर्विनष्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्य ? प्रत्यासत्तिविशेषाभावादिति चेत् तर्हि स एव प्रत्यासत्तिविशेषः कारणत्वाभिमतयोरतीतानागतयोः कारणत्वे हेतुर्वक्तव्यः । स चातीतस्य कार्ये व्यापारस्तावन्न भवति सर्वथापि कार्यकाले तदसत्त्वादनागतवत् । तद्भावे भावप्रत्यासत्तिविशेष इत्यप्यसारं अतीतस्यानागतस्य चाभाव एव कार्यस्य भावात् भावे चाभावात् अन्यथा कार्यकारणयोरेककालतापत्तेः सकलसंतानानामेकक्षणवर्तित्वप्रसंगः । नैकक्षणसंतानो नाम तस्यापरामृष्टभेदनानाकार्यकारणलक्षणत्वात् ।
यदप्यभ्यधायि कारणस्यातीतस्यानागतस्य च स्वकाले भाव कार्यस्य भावात् अभावे चाभावात तद भावाभावोऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेषोऽस्त्येव इति तदप्यसंगतं कारणत्वानभिमतातीतानागततमयोरपि तथा तद्भावप्रसंगात् । कार्यस्य भिन्नदेशस्य तु कारणले युक्तस्तद्भावभावः कलशकुंभकारादिवत् । कुंभकारादिषु हि भिन्नस्वदेशेषु सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् । कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्य तद्भावभावो तत्र तस्याव्यापारात् अतीतानागतवत् । सतो हि कस्य चित्क्वचिद्व्यापारः श्रेयान् न पुनरसत: खरविषाणादेरिवेति युक्तं ततो भिन्नदेशस्यापि कस्यचिदेकस्य कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुनर्भिन्नकालस्य प्रतीत्यतिलंघनात् ततो न कृत्तिकोदयशकटोदययाः कार्यकारणभावः समवतिष्टते व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्ममंतरेणापि हेतोर्गमकत्वसिद्धेर्न तलक्षणमुत्प्रेक्ष्यते । तथा न सपक्ष एव सत्त्वं निश्चितं तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनात् । विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाविनियमनिश्चयरूपमेवेति तदेव हेतोः प्रधानलक्षणमस्तु किमत्र लक्षणांतरेण ?
अथ मतमेतत्पक्षधर्मत्वमसिद्धत्वमसिद्धत्वव्यवच्छेदार्थ साधनस्य लक्षणं निश्चीयते । सपक्ष एव सत्त्वं विरुद्धत्वव्यवच्छेदाय । विपक्षे चासत्त्वं-अनेकांतित्वव्यवच्छित्तये । तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारा