SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ३५।११९ ३५।१२१ ३६।३० ३६।७३ ३६७४ ३६७५ ३६१७६ ३६५८६ ३६१८७ ३६।११७ आदिपुराण भाग दो के सुभाषित 'मानमेवाभिरक्षन्तु धीराः प्राणः प्रणश्वरैः । नन्वलंकुरुते विश्वं शश्वन्मानाजितं यशः ॥' 'वचोभिः पोषयन्त्येव पण्डिताः परिकल्वपि । प्रक्रान्तायां स्तुताविष्टः सिंहो ग्राममृगो ननु ।' 'ननु सिंहो जयत्येकः संहितानापि दन्तिनः ।' 'को नाम मतिमानीप्सेद् विषयान्विषदारुणान् । येषां वशगतो जन्तुः यात्यनर्थपरम्पराम् ॥' 'वरं विषं यदेकस्मिन्भवे हन्ति न हन्ति वा । विषयास्तु पुनर्नन्ति हन्त जन्तूननन्तशः ॥' 'आपातमात्ररम्याणां विपाककटुकात्मनाम् । विषयाणां कृते नाज्ञो यात्यनर्थानपार्थकम् ॥' 'अत्यन्तरसिकानादौ पर्यन्ते प्राणहारिणः । किपाकपाकविषमान् विषयान् कः कृती भजेत् ॥' 'प्रसह्य पायतन् भूमौ गात्रेषु कृतवेपथुः । जरापातो नृणां कष्टो ज्वरः शीत इवोद्भवन् ।' 'अङ्गसादं मतिभ्रेषं वाचामस्फुटतामपि । जरा सुरा च निविष्टा घटयत्याशु देहिनाम् ॥' 'नाग्न्यं नाम परं तपः' 'ज्ञानशुद्धया तपःशुद्धिरस्यासीदतिरेकिणी । ज्ञानं हि तपसो मूलं यद्वन्मूलं महातरोः॥' 'सूते हि फलमक्षीणं तपोऽक्षणमुपासितम् ॥' 'महतां हि मनोवृत्ति!त्सेकपरिरम्भिणी' 'रत्नानि ननु तान्येव यानि यान्त्युपयोगिताम् ॥' 'तपः श्रुतं च जातिश्च त्रयं ब्राह्मण्यकारणम् । तपःश्रुताभ्यां यो होनो जातिब्राह्मण एव सः ॥ 'क्षत्रियो न्यायजीविकः' 'प्रजा कामदुघा धेनुर्मता न्यायेन योजिता ।' 'राजवृत्तमिदं विद्धि यन्यायेन धनार्जनम् । वर्धनं रक्षणं चास्य तीर्थे च प्रतिपादनम् ॥' 'अज्ञानकुलधर्मो हि दुर्वृ त्तैर्दूषयेत्कुलम्' 'रक्षितं हि भवेत्सर्व नृपेणात्मनि रक्षिते' "हिंसोपदेशि यद्वाक्यं न वेदोऽसौ कृतान्तवाक्' 'पुराणं धर्मशास्त्रं च तत्स्याद् वधनिषेधि यत् । वधोपदेशि यत्तत्तु ज्ञेयं धूर्तप्रणेतृकम् ॥' 'मन्त्रास्त एव धासु ये क्रियासु नियोजिताः । दुर्मन्त्रास्तेऽत्र विज्ञेया ये युक्ताः प्राणिमारणे ॥' 'स्यान्निरामिषभोजित्वं शुद्धिराहारगोचराः । सर्वंकषास्तु ते ज्ञेया ये स्युरामिषभोजिनः ॥' 'अहिंसाशद्धिरेषां स्याद् ये निःसङ्गा दयालवः । रताः पशुवधे ये तु न ते शुद्धा दुराशयाः ॥' 'न्यायो दयावृत्तित्वमन्यायः प्राणिमारणम् ।' 'को हि नाम तमो नशं हन्यादन्यत्र भास्करात् ।' ३६।१४८ ३६।१५५ ३७।१३ ३७११९ ३८।४३ ३८।२६२ ३८।२६९ ३८।२७० ३८।२७४ ३८।२७५ ३९।२२ ३९।२३ ३९।२६ ३९।२९ ३९।३० ३९।१४१ ४०१९
SR No.090011
Book TitleAdi Puran Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2011
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Mythology, & Story
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy