SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १२ आदिपुराणम् 'क्रोधान्धतमसे मग्नं यो नात्मानं समुद्धरेत् । स कृत्य संशयं द्वैधान्नोत्तरीतुमलन्तराम् ॥' 'किं तरां स विजानाति कार्याकार्यमनात्मवित् । यः स्वान्तः प्रभवान् जेतुमरीन्न प्रभवेत् प्रभुः ॥' 'स्थायुकं हि यशो लोके गत्वर्यो ननु सम्पदः । ' 'किमप्सरः शिरोजान्तसुमनोगन्धलालितः तुम्बीवनान्तमभ्येति प्राणान्तेऽपि मधुव्रतः ' 'मुक्ताफलाच्छमादाय गगनाम्बुनवाम्बुदात् । शुष्यत्सरोऽपि किं वाञ्छेदुदन्यन्नपि च ।।' 'उत्तिष्ठन्ते स्म मुक्त्यर्थं बद्धकक्षा मुमुक्षवः' 'सर्व हि परिकर्मेदं बाह्यमध्यात्मशुद्धये' 'प्रादुरासन् विशुद्धं हि तपः सूते महत्फलम्' 'अयं खलु खलाचारो यद् बलात्कारदर्शनम् । स्वगुणोत्कीर्तनं दोषोद्भावनं च परेषु यत् ।।' 'विवृणोति खलोऽन्येषां दोषान् स्त्रांश्च गुणान् स्वयम् । संवृणोति च दोषान् स्वान् परकीयान्गुणानपि ।।' 'अनिराकृतसंतापा सुमनोभिः समुज्झिताम् । फलहीनां श्रयत्यज्ञः खलतां खलतामिव ।।' 'सतामसम्मतां विष्वगाचितां विरसैः फलैः । मन्ये दुःखलतामेनां खलतां लोकतापिनीम् ॥' 'नैकान्तशमनं साम समाम्नातं सहोष्मणि । स्निग्धेऽपि हि जने तप्ते सर्पिषीवाम्बुसेचनम् ॥' 'उपप्रदानमप्येवं प्रायं मन्ये महौजसि । समित्सहस्रदानेऽपि दीप्तस्याग्नेः कुतः शमः ॥' 'लोहस्येवोपतप्तस्य मृदुता न मनस्विनः । दण्डोऽप्यनुनयग्राहये सामजे न मृगद्विषि ।। ' 'जरन्नपि गज : कक्षां गाहते कि हरे : शिशो : ।' 'तेजस्वी भानुरेवैकः किमन्योऽप्यस्त्यतः परम् ॥' 'स्वदोमफलं श्लाघ्यं यत्किंचन मनस्विनाम् । न चातुरन्तमप्यैश्यं परभ्रूलतिकाफलम् ॥' 'पराज्ञोपहतां लक्ष्मी यो वाञ्छेत्पार्थिवोऽपि सन् । सोऽपार्थयति तामुक्ति सर्पोक्तिमिव डुण्डुभः ॥ ' 'परावमानमलिनां भूति धत्ते नृपोऽपि यः । नृपशोस्तस्य नन्वेष भारो राज्यपरिच्छदः ॥ 'मानभङ्गाजितैर्भोगैर्यः प्राणान्धर्तुमीहते । तस्य भग्नरदस्येव द्विरदस्य कुतो भिदा ।।' 'छत्रभङ्गाद्विनाप्यस्य छायाभङ्गोऽभिलक्ष्यते । यो मानभङ्गभारेण बिभर्त्यवनतं शिरः ॥' 'मुनयोऽपि समानाश्चेत् त्यक्तभोगपरिच्छदाः । को नाम राज्यभोगार्थी पुमानुज्झेत्समानताम् ।।' 'वरं वनाधिवासोऽपि वरं प्राणविसर्जनम् । कुलाभिमानिनः पुंसो न पराज्ञाविधेयता ।।' ३४।७४ ३४।७५ ३४।८६ ३४।१०६ ३४।१०७ ३४।१६७ ३४।२१३ ३४।२१४ ३५।९४ ३५/९५ ३५।९६ ३५।९७ ३५।१०० ३५।१०१ ३५ १०२ ३५।१०५ ३५।१०८ ३५।११२ ३५।११३ ३५।११४ ३५।११५ ३५।११६ ३५।११७ ३५।११८
SR No.090011
Book TitleAdi Puran Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2011
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Mythology, & Story
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy