________________
आदिपुराण भाग दो के सुभाषित
'अहो कष्टा दरिद्रता ।'
'रम्यं हारि न कस्य वा ।'
'नूनं तीव्रप्रतापानां माध्यस्थ्यमपि तापकम् ।'
'महतां चित्रमीहितम् ।'
'अहो स्थैर्य महात्मनाम् ।'
'बिर्भात यः पुमान् प्राणान् परिभूतिमलीमसान् ।
न गुणैलिङ्गमात्रेण पुमानेष प्रतीयते ॥ '
'सचित्र पुरुषो वास्तु चञ्चापुरुष एव च । यो विनापि गुणैः पोस्नैः नाम्नैव पुरुषायते ।।' ' स पुमान् यः पुनीते स्वं कुलं जन्म च पौरुषैः । भटब्रुवो जनो यस्तु तस्यास्त्वभवनिर्भुवि ॥' 'सत्यं परिभवः सोढुमशक्यो मानशालिनाम् । बलवद्भिर्विरोधस्तु स्वपराभवकारणम् ॥' 'बलिनामपि सन्त्येव बलीयांसो मनस्विनः । बलवानहमस्मीति नोत्सेक्तव्यमतः परम् ॥' 'इहामुत्र च जन्तूनामुन्नत्यै पूज्यपूजनम् । तापं तत्रानुबध्नाति पूज्यपूजाव्यतिक्रमः ।।' 'सम्भोगैरतिरसिको न तृप्यतीह ' 'पुण्ये बलीयसि किमस्ति जगत्यजय्यम्' 'पुण्यात्परं न खलु साधनमिष्टसिद्धये ' 'पुण्यात्परं न हि वशीकरणं जगत्याम्' 'पुण्यं जले स्थलमिवाभ्यवपद्यते नृन्
पुण्यं स्थले जलमिवाशु नियन्ति तापम् । पुण्यं जलस्थलभये शरणं तृतीयं
पुण्यं कुरुध्वमत एवं जना जिनोक्तम् ॥' 'पुण्यं परं शरणमापदि दुर्विलङ्घ्यं
पुण्यं दरिद्रति जने धनदायि पुण्यम् । पुण्यं सुखार्थिनि जने सुखदायि रत्नं
पुण्यं जिनोदितमतः सुजनाश्चिनुध्वम् ॥'
पुण्यं जिनेन्द्रपरिपूजन साध्यमाद्यं
पुण्यं सुपात्रगतदानसमुत्थमन्यत् । पुण्यं व्रतानुचरणादुपवासयोगात्
पुण्यार्थिनामिति चतुष्टयमर्जनीयम् ॥'
'किमु कल्पतरोः सेवास्त्यफलाल्पफलापि वा
'सत्यं बहुनटो नृपः '
'सर्वो हि वाञ्छति जनो विषयं मनोज्ञम्' 'प्रभवो मितभाषिणः '
२६।४९
२७।१९
२७।१००
२८।२७
२८/५७
२८।१२९
२८१३०
२८।१३१
२८।१३९
२८।१४२
२८।१५१
२८|१९०
२८२१४
२८ २१५
२८ २१६
२८ २१७
२८ २१८
२८ २१९
२९।३३
२९।३७
२९।१५३
३४/३०