________________
१४
४११९७
४१११०४ ४१।११४
४१।११६ ४३।१६
४३।२०
४३।२१
४३।२४
४३।२६.
४३।२८
आदिपुराणम् 'धर्मशीले महोपाले याति तच्छीलतां प्रजाः । अताच्छील्यमतच्छीले यथा राजा तथा प्रजा ॥' 'दानं पूजां च शीलं च दिने पर्वण्युपोषितम् । धर्मश्चतुर्विधः सोऽयमाम्नातो गृहमेधिनाम् ॥' 'धर्मे हि चिन्तिते सर्व चिन्त्यं स्यादनु चिन्तितम्' 'धर्मो रक्षत्युपायेभ्यो धर्मोऽभीष्टफलप्रदः। धर्मः श्रेयस्करोऽमुत्र धर्मेणेहाभिनन्दथुः ॥' 'धर्मा ननु केनापि नादशि विरसं क्वचित्' 'दोषान्गुणान् गुणी गृह्णन् गुणान् दोषांस्तु दोषवान् । सदसज्ज्ञानयोश्चित्रमत्र माहात्म्यमीदृशम् ॥' 'गुणिनां गुणमादाय गुणी भवतु सज्जनः । असद्दोषसमादानाद् दोषवान् दुर्जनोऽद्भुतम् ॥' 'कविरेव कवेत्ति कामं काव्यपरिश्रमम्, .. वन्ध्या स्तनन्धयोत्पत्तिवेदनामिव नाकविः' .. 'गुणागुणानभिज्ञेन कृता निन्दाथवा स्तुतिः । जात्यन्धस्येव धृष्टस्य रूपे हासाय केवलम् ॥' 'गणयन्ति महान्तः किं क्षुद्रोपद्रवमल्पवत्, दाह्यं तृणाग्निना तूलं पत्युस्तापोऽपि नाम्भसाम् ॥' 'काष्ठजोऽपि दहत्यग्निः काष्ठं तं तत्तु वर्धयेत् । प्रदीपायितमताभ्यां सदसद्भूतभासने ॥' 'हृदि धर्ममहारत्नमागमाम्भोधिसम्भवम् । कौस्तुभादधिकं मत्वा दधातु पुरुषोत्तमः ।।' 'आकरेष्विव रत्नानामूहानां नाशये क्षयः । विचित्रालंकृती : कर्तुं दौर्गत्यं किं कवेः कृतीः॥' 'नार्थिनो विमुखान्सन्तः कुर्वते तद्धि तद्वतम्' 'सन्तोऽवसरवादिनः' 'न सहन्ते ननु स्त्रीणां तियंचोऽपि पराभवम्' 'आभिजात्यं वयोरूपं विद्यां वृत्तं यश:श्रियम् । विभुत्वं विक्रम कान्तिमैहिकं पारलौकिकम् ।। प्रीतिमप्रीतिमादेयमनादेयं कृपां त्रपाम् । हानि वृद्धि गुणान्दोषान्गणयन्ति न योषितः ।।' 'वृश्चिकस्य हि विषं पश्चात्पन्नगस्य विषं पुरः । योषितां दूषितेच्छानां विश्वतो विषमं विषम् ॥' 'जालकैरिन्द्रजालेन वञ्च्या ग्राम्या हि मायया । ताभिः सेन्द्रो गुरुर्वञ्च्यस्तन्मायामातर : स्त्रियः ॥' दोषाः किं तन्मयास्तासु दोषाणां कि समुद्भवः । तासां दोषेभ्य इत्यत्र न कस्यापि विनिश्चयः ॥' 'निर्गुणान्गुणिनो मन्तुं गुणिनः खलु निर्गुणान् । नाशकत् परमात्मापि मन्यन्ते ता हि हेलया ।' 'आर्याणामपि वाग्भूयो विचार्या कार्यवेदिभिः । वाया : किं पुनर्नार्या : कामिनां का विचारणा ॥' 'कनीयसोऽपि सम्बन्धं नेच्छन्ति ज्यायसा सह' '
४३३२९
४३।३५
४३१४२ ४३७२ ४३१७३ ४३.९९
४३११०२।१०३
४३।१०४
४३३१०७
४३।१०९
४३।११०
४३।११५ ४३।१८८