________________
प्रथमं पर्व
धारण करनेवाले भरत के स्तवन आदिसे केवलज्ञानरूप साम्राज्यके पदको प्राप्त हुए हैं । एक वर्षके कठिन कायोत्सर्गके बाद भरत द्वारा स्तवन आदि किये जानेपर ही बाहुबली स्वामीने निःशल्य हो शुक्लध्यान धारण कर केवलज्ञान प्राप्त किया था। जो इभत्रै - ( इश्वासौ भर्ता च तस्मै ) कामदेव और राजा दोनों हैं अथवा ईभ ( या भर्ता तस्मै ) - लक्ष्मी अधिपति हैं और कर्मबन्धनको नष्ट कर संसारका भय अपहरण करनेवाले हैं ऐसे श्री बाहुबली स्वामीको नमस्कार हो ।
इस पक्ष में श्लोकका अन्वय इस प्रकार करना चाहिए - श्रीमते, धर्मचक्रभृता, सकल - ज्ञानसाम्राज्यपदमीयुषे, संसारभीमुषे, इभर्त्रे नमः ।
वृषभसेन गणधरके पक्ष में व्याख्यान इस प्रकार है । श्रीमते यह पद चतुर्थ्यन्त न होकर सप्तम्यन्त है - ( श्रिया - स्याद्वादलक्ष्म्या उपलक्षितं मतं जिनशासनं तस्मिन् ) अतएव जो स्याद्वादलक्ष्मीसे उपलक्षित जिनशासन - अर्थात् श्रुतज्ञानके विषयमें परोक्ष रूपसे समस्त पदार्थोंको जाननेवाले ज्ञानके साम्राज्यको प्राप्त हैं, जो धर्मचक्र अर्थात् धर्मोके समूहको धारण करनेवाले हैं—पदार्थोंके अनन्त स्वभावोंको जाननेवाले हैं, मुनिसंघ अधिपति हैं.
पुष्णातीत्येवंशीलो भर्ता तस्मै भर्त्रे नमः उपाध्यायपरमेष्ठिने नमः ' णमो उवज्झायाणमिति' यावत् । "जो रयणतयजुत्तो णिच्चं धम्मोवदेसणे णिरदो । सो उत्रझाओ अप्पा जदिवरउस हो णमो तस्स" इत्यागमात् । सद्ध्याननिलीनः सन् दर्शनज्ञानसमग्रभावमोक्षस्य साधकतमं विशुद्धचारित्रं नित्यं साधयन् यतीन्द्रो भावसंसारभियं मुष्णातीति संसारभीमुट् तस्मै संसारभीमुषे नमः साधुपरमेष्ठिने नमः ' णमो लोए सव्वसाहूणमिति' यावत् । "दंसणणाणसमग्गं मग्गं मोक्खस्स जोहु चारितं । साहयदि सुद्धणिच्वं साहू स मुणी णमो तस्स ||" इति प्रवचनात् । अत्र — इतरपदवत् चतुर्थीविभक्त्यन्तत्वेन पदत्वं हित्वा सकलज्ञानसाम्राज्यपदमिति व्यासवचनं तु मतमहातिशयज्ञापनार्थं प्रतिज्ञावचनमाचार्यस्येति ब्रूमः । तथाहि सकलतत्त्वव्यवस्थाजीवातुस्याद्वादामोघलाञ्छनलाञ्छितत्वेन सर्वबाधाविधुरसाधन साधितत्वेन सर्वोदयवत्त्वेन च श्रीमदर्हन्मंतं तीर्थ श्रीमतं "सर्वोदयं तीर्थमिदं - तवेद" इति युक्त्यनुशासनात् । तस्मिन् श्रीमत एव सकलज्ञानसाम्राज्यपदं श्रीमत्त्वान्यथानुपपत्तेरिति । तदीयुषे इति संबन्धः । अत्र पुराणे न केवलमादितीर्थंकर : भरतधर्म चक्रभृच्छला कापुरुषश्च प्रतिपाद्यत इति प्रकाशितः । अरदानयनृपतिप्रभृतिधार्मिकोत्तंसो जनोऽपीति प्रतिपाद्यार्थ प्रकाशयति श्रीमत इति । श्रीमतिपर्यायोऽस्यास्तीति श्रीमतः “अभ्रादिभ्यः" इत्यद्विधानात् दानश्रेयो नृपतिरित्यर्थः तस्य श्रीमतिचरत्वात् तस्मिन् सति सकलज्ञानसाम्राज्यपदनीयुषे इति संबन्धः इत्यनेन नानाकथासंबन्धो दानतीर्थकरश्च प्रतिपाद्य इति प्रकाशितः ।
"जीयाज्जिनो जगति नाभिनरेन्द्रसूनुः श्रेयान् नृपश्च कुरुगोत्रगृहप्रदीपः ।
याभ्यां बभूवतुरिह व्रतदानतीर्थे सारक्रमे परमधर्मरथस्य चक्रे ॥"
इति दानतीर्थंकरत्वप्रसिद्धेः । किं च सर्वपादाद्यक्षराणां पठनेन श्रीसाधनमिति प्रयोजनप्रतिपादनातिशयः सद्धलक्ष्म्यां प्रेक्षावद्भिरवगन्तव्य इत्युपरम्यते । अत्रैव पुनः प्रेक्षावतामानन्दकन्दल्यां नान्द्यां श्रीमद्वेणुपुर भव्यजनं संबोधनाचार्यः प्रश्नोत्तरेण सद्धर्मसर्वस्वरहस्य मत्रैवेत्यन्तर्लापित्वेन दृढयनाशिषमाह - श्रीमत इति । लक्ष्म्यां वा मतिर्यस्य असौ श्रीमतिः तस्य संबुद्धिः श्रीमते ! भो भो भरतसौधर्माधिपतिदुर्लभकलियुगजैनमार्गप्रभावभासंतोषितसौधर्मेन्द्रलौकान्तिकेन्द्र विदेहच क्रोन्द्रसालुविम्मणिदेवेन्द्र ! अभ्युदयनिश्श्रेयस लक्ष्मीस्वसात्करणलोलुपबुद्धे ! सकलज्ञानसाम्राज्यपदं क्वेति जिज्ञासायां श्रीमत एवं अईच्छासन एव तस्मिन् सति सकलज्ञानसाम्राज्यपदमीयुषे धर्मचक्रभृते भर्त्रे संसारभीमुषे श्रीमते आदीश्वराय अथवा पार्श्वतीर्थकृत्सम्मुखीनत्वादि प्रकरणबलात् भुवं घरतीति घर्मो घरणीन्द्रस्तं चक्राकारेण वलयाकारेण समीपे बिभर्तीति धर्मचक्रभृत् पार्श्वतीर्थकरः तस्मै शेषविशेषणविशिष्टाय श्रीमत्पार्श्व तीर्थकृते नमस्कुरु यतस्ते सुरासुरेन्द्र मुकुटतटगत दिव्यमणिकिरणजालबालातपकवचितचारुचरणारविन्दतीर्थकरपरम देवनिरतिशयकल्याणपरम्परा स्यादिति सर्व समन्ततो भद्रम् ।