SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आदिपुराणम् किया है जिसमें उन्होंने अरहन्त, सिद्ध, आचार्य, उपाध्याय, साधु, भरत चक्रवर्ती, बाहुबली, वृषभसेन गणधर तथा पार्श्वनाथ तीर्थकर आदिको भी नमस्कार किया गया प्रकट किया है । अतः उनके अभिप्रायके अनुसार कुछ विशेष व्याख्यान यहाँ भी किया जाता है। भगवान् वृषभदेवके पक्षका व्याख्यान ऊपर किया जा चुका है। अरहन्त परमेष्ठीके पक्षमें 'श्रीमते' शब्दका अर्थ अरहन्त परमेष्ठी लिया जाता है क्योंकि वह अन्तरङ्ग बहिरङ्ग लक्ष्मीसे सहित होते हैं। सिद्ध परमेष्ठीके पक्ष में सकलज्ञानसाम्राज्यपदमीयुषे' पदका अर्थ सिद्ध परमेष्ठी किया जाता है; क्योंकि वह सम्पूर्ण ज्ञानियोंके साम्राज्यके पदको-लोकाग्रनिवासको प्राप्त हो चुके हैं। आचार्य परमेष्टीके पक्ष में 'धर्मचक्रभृते' पदका अर्थ आचार्य लिया जाता है; क्योंकि तयोरुपस्कृतत्वेनाभिधानात् । अन्यथा वाक्यार्थस्यापरिसमाप्तेः । तत्र अहमिति कर्तुस्साक्षादनभिधानेन प्रणतजगत्रितयगणधरसकलश्रुतधरदशपूर्वधरैकादशाङ्गधराहमिन्द्रेन्द्रादिषु बन्दारुवन्दारकेषु सत्स अहं कियानिति सरेरौढत्यपरिहारलक्षणं वस्तु व्यज्यते । क्रियायास्तथानभिधानेन नमस्कुर्वन्त्वित्यादीनामन्ययुष्मदस्मदर्थानां ग्रहणेन सर्वेऽपि भव्यसिंहास्तन्नमस्काररूपं परममङ्गलमङ्गोकुर्वन्तु येनाभिमतसिद्धिस्स्यादिति सर्वभव्यलोकोत्साहनेनाचार्यस्य परानुग्रहनिरतत्वमुद्योतितम् । अस्तु नाम कर्तृ क्रिययोः साक्षादनभिधानस्य प्रयोजनम् । कि कर्म ? करोते: सकर्मकत्वात् ? नत्राह-'नमः' इति । अत्र नमश्शब्दो निर्भरभूतलशयालुमौलिभावलक्षणपूजावचनः । 'नमश्शब्दः पूजावचनः' इति न्यासकारेण निरूपणात् । तत्करोमीत्यन्वयेन तस्य कर्मत्वसिद्धेः स्फुटत्वात् । अत्र नम इति दिव्यनमस्कारेणान्तर्जल्पात्मको भावनमस्कारोऽपि विद्यते, तत्रभवति निस्सीमभक्तियुक्तस्य सूरेरुभयत्राप्यथित्वात् । अस्तु नमश्शब्दः पूजावचनः, कस्मै पूज्याय नम: ? यद्योगाच्चतुर्थी स्यादित्याकाङ्क्षायां विशेष्यं निर्दिशतिश्रीमत इति । पुण्यवतः पुरुषान् श्रयतीति श्रीलक्ष्मीः सा च बहिरङ्गान्तरङ्गभेदाद् द्विविधा । तत्र बहिरङ्गलक्ष्मीः समवसरणादिरम्यन्तरलक्ष्मीः केवलज्ञानादिस्तयोरुभयोरपि श्रीरिति ग्रहणम्, जात्यपेक्षया तथा ग्रहीतुं सुशकत्वात् । यद्यप्यभ्युदयलक्ष्मी राजाधिराजार्द्धमण्डलीकमण्डलीकार्द्धचक्रधरहलधरसकलचक्रधरकुलिशधरतीर्थकरसत्कर्मधरा. दिसंबन्धभेदेनानेकधा तथापि निरतिशययोः प्रकृतोभयलक्ष्म्योरेवात्र ग्रहणम् । निरतिशया उक्तलक्षणा श्रीलक्ष्मी- . रस्यास्ति 'श्रीमान्' इति, निरतिशयातिशयार्थे मतोविधानात् । ताभ्यामतिशयिताया लक्षम्या असम्भवात न केवलमेतस्मिन्नेवार्थे बहिरङ्गलक्षम्या संसर्गेऽन्तरङ्गलक्ष्म्या नित्ययोगेऽपि मतोविधानमुन्नेतव्यम् भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ती' त्यादिवचनात् । यद्यपि सप्ततिशतकर्मभूमिषु तीर्थकरेषु सर्वेष्वप्येतत् प्रवृत्तिनिमित्तमाश्रित्य श्रीमद्व्यवहारो जाघटीति तथाप्येतत् क्षेत्रकालेन्द्रादिवृद्धव्यवहारतत्पुराणादिसामग्रीमाश्रित्य तत्रैव तद्व्यवहारस्य प्रसिद्धिः । तस्य महाभागधेयस्याष्टोत्तरसहस्रनामधेयेषु "श्रीमान् स्वयम्भूवषभः” इत्यादिषु सकलसंज्ञाजीवातुत्वेन तस्यैव पुरस्कृतत्वात् । तथाप्यभिधानमाश्रित्य श्रीमच्छब्दस्य प्रजापतिश्रीपतिवावपतिश्रीघनादिषु आप्ताभासेष्वपि व्यवहारसंभवात्, तेभ्यो नम इति स्यात्, तद्व्युदासाय विशेषणमाह-सकलेति । सकलं सर्वद्रव्यपर्यायगतं च तज्ज्ञानं च सकलज्ञानं केवलज्ञानमिति यावत्, 'सर्वद्रव्यपर्यायेषु केवलस्य' इति सूत्रणात । तदेवाभेदेन चक्रवतित्वपदव्या रूप्यते सकलज्ञानमेव साम्राज्यपदं सकलज्ञानसाम्राज्यपदं तथा तेनाभेदेन सकलज्ञानस्य निरूपणेन लोकोत्तरत्वातिदुर्लभत्वजगत्सारत्वादितन्माहात्म्यस्य लोकेऽपि प्रकटनप्रयोजनस्य सुघटत्वात् । तदीयुषे जग्मुषे, प्राप्तवते किल । अनेन तद्व्युदासः कथमिति चेत् ? अन्तर्बहिर्वस्तुनः कथंचित द्रव्यपर्यायात्मकस्य सुनिश्चितासंभवद्बाधकप्रमाणेन अस्तित्वसाधनात् । सर्वथा द्रव्यमात्रस्य पर्यायमात्रस्य वा सर्वथा विभिन्नतवयस्य अभिन्नतवयस्य वा सुनिश्चितासंभवत्साधकप्रमाणेन खपुष्पवनास्तित्वसिद्धः। "अभेदभेदात्मकमर्थतत्त्वं तव स्वतन्त्रान्यतरत्खपुष्पम्" इति समन्तभद्रस्वामिवचनात् । तथा चार्थाभासग्राहिणां आप्ताभासानां सर्वज्ञाभासत्वेन तेषां सकलज्ञानेत्यादिना व्युदासात् । न च तैरुपचरितसर्वज्ञः परमार्थसर्वज्ञस्य व्यभिचारः, अतिपंगात् । येनाभिधानसिद्धश्रीमद्व्यवहारेण तेभ्योऽपि नम: स्यात् । तथापि सिद्धपरमेष्ठिनानकान्तः तस्यापि केवलाख्यामकेवलां श्रियमनुभवतः श्रीमत्सकलज्ञान इत्यादिविशेषणसभावात् ।
SR No.090010
Book TitleAdi Puran Part 1
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages782
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Mythology, & Story
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy