________________
सूक्तिसंचयः
क्षारमम्बु यथा पीत्वा तृष्यत्यतितरां नरः । तथा विषयसंभोगैः परं संतर्षमृच्छति ॥११११६६॥ भोग्या हि बलिनां स्त्रियः ।१३।५६। सोपाया हि जिगोषवः ।१५।५७। विद्यावान पुरुषो लोके संमति याति कोविदः । नारी च तद्वती धत्ते स्त्रीसृष्टेरग्रिमं पदम् ॥१६॥६॥ विद्या यशस्करी पुंसां विद्या श्रेयस्करी मता। सम्यगाराधिता विद्यादेवता कामदायिनी ॥१६॥६६॥ विद्या कामदुधा धेनुषिद्या चिन्तामणिर्नृणाम् । त्रिवर्गफलितां सूते विद्या संपत्परम्पराम् ॥१६॥१०॥ विद्या बन्धुश्च मित्रं च विद्या कल्याणकारकम् । सहयायि धनं विद्या विद्या सर्वार्थसाधिनी ॥१६॥१०१॥ पुण्यात् सुखं न सुखमस्ति विनेह पुण्यात् ।
बीजाद्विना न हि भवेयुरिह प्ररोहाः। पुण्यं च दानवमसंयमसत्यशोच
त्यागक्षमाविशुभचेष्टितमूलमिष्टम् ॥१६।२७१॥ दानं प्रदत्त मुदिता मुनिपुङ्गवेभ्यः
पूजां कुरुध्वमुपनम्य च तीर्थकृद्भ्यः । शीलानि पालयत पर्वदिनोपवासान
विष्माष्टं मा स्म सुधियः सुखमीप्सवरचेत् ॥१६॥२७॥ संध्यारागनिभारूपशोभातारुण्यमुज्ज्वलम् । पल्लवच्छविवत्सद्यः परिम्लानिमुपाश्नुते ॥१७॥१४॥ यौवनं वनवल्लीनामिव पुष्पं परिक्षयि । विषवल्लीनिभा भोगसंपदो भङ्गि जीवितम् ॥१७॥१५॥ घटिकाजलधारेव गलत्यायुः स्थितिदुतम् । शरीरमिदमत्यन्तपूतिगन्धि जगुप्सितम् ॥१७॥१६॥ निःसारे खलु संसारे सुखलेशोऽपि दुर्लभः । दुःखमेव महत्यस्मिन् सुखं काम्यति मन्दधीः ॥१७॥१७॥ विरक्तः कामभोगेषु स्वशरीरेऽपि निःस्पहः । सवस्तुवाहनं राज्यं तृणवन्मन्यतेऽधुना ॥१७॥१५१॥ तपः शक्तिरहो परा ॥१८॥४॥ वर्षीयांसो यवीयांस इति भेदो वयस्कृतः। न बोधवृद्धिर्वार्धक्ये न यून्यपचयो धियः ॥१८॥११॥