________________
आदिपुराण वयसः परिणामेन धियः प्रायेण मन्दिमा। कृतात्मनां वयस्याये ननु मेधा विवर्धते॥१८॥११॥ नवं वयो न दोषाय न गुणाय दशान्तरम् । नवोपोन्दुर्जनालादी बहत्यग्निर्जरन्नपि ॥१८॥१२०॥ अपृष्टः कार्यमाचष्टे यः स धृष्टतरो मतः ॥१८॥१२१॥ नामष्टभाषिणी जिहा चेष्टां नानिष्टकारिणी। नान्योपघातपरुषा स्मृतिः स्वप्नेऽपि धीमताम् ॥१८॥१२३॥ आमपाने यया क्षिप्तं मझु क्षीरादि नश्यति । अपात्रेऽपि तथा दत्तं तद्धि स्वं तच्च नाशयेत् ॥२०॥१४३॥ नहि लोहमयं यानपानमुत्तारयेत्परम् । तथा कर्मभराक्रान्तो दोषवान्नैव तारकः ॥२०॥१४॥ संकल्पवशगो मूढो वस्त्विष्टानिष्टतां नयेत् । रागद्वेषौ ततस्ताभ्यां बन्धं दुर्मोचमश्नुते ॥२१॥२४॥ न तत्सुखं परतव्यसंबन्धादुपजायते। नित्यमव्ययमक्षय्यमात्मोत्थं हि परं शिवम् ॥२१॥२०॥ सत्येव दर्शने ज्ञानं चारित्रं च फलप्रवम् । ज्ञानं च दृष्टिसच्चर्यासान्निध्ये मुक्तिकारणम् ॥२४॥१२१॥ चारित्रं दर्शनज्ञानविकलं नार्थकृन्मतम् । प्रपातायव तद्धि स्यादन्धस्येव विवल्गितम् ॥२४॥१२२॥