SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६८ आदिपुराण धर्मः प्रपाति दुःखेभ्यो धर्मः शर्म तनोत्ययम् । धर्मो नैःश्रेयसं सौख्यं दत्ते कर्मक्षयोद्भवम् ॥१०॥१०७॥ धर्मादेव सुरेन्द्रत्वं नरेन्द्रत्वं गजेन्द्रता। धर्मात्तीर्थकरत्वं च परमानन्त्यमेव च ॥१०।१०८॥ धर्मो बन्धुश्च मित्रश्च धर्मोऽयं गुरुरङ्गिनाम्। तस्माद्धर्मे मतिं धत्स्व स्वर्मोक्षसुखदायिनि ॥१०॥१०॥ नीचैर्वृत्तिरधर्मेण धर्मेणोच्चैः स्थिति भजेत् । तस्मादुच्चैः पदं वाञ्छन्नरो धर्मपरो भवेत् ॥१०।११६॥ प्रायेणात्मवतां चित्तमात्मश्रेयसि जायते ।१०।१२४। प्रायः श्रेयोऽथिनो बुधाः ।११।५।। धिगेनां संसृतिस्थितिम् ।११७॥ समाधये हि सर्वेषां परिष्पन्दो हितार्थिनाम् ।११।७१। निर्द्वन्द्ववत्तितामाप्ताः शमुशन्तीह देहिनाम्। तत्कुतस्त्यं सरागाणां द्वन्द्वोपहतचेतसाम् ॥१११६४॥ स्त्रीभोगो न सुखं चेतः संमोहाद् गात्रसादनात् । तृष्णानुबन्धात्संतापरूपत्वाच्च यथा ज्वरः ॥११११६५॥ मनोज्ञविषया सेवा तृष्णायै न वितृप्तये। तृष्णाचिषा च संतप्तः कथं नाम सुखी जनः ॥११।१६७॥ रुजां यन्नोपघाताय तदौषधमनौषधम् । यन्नोदन्या विनाशाय नाञ्जसा तज्जलं जलम् ॥१११६८॥ मनोनितिमेवेह सुखं वाञ्छन्ति कोविदाः। तत्कुतो विषयान्धानां नित्यमायस्तचेतसाम् ॥११११७२॥ विषयानुभवे सौख्यं यत्पराधीनमङ्गिनाम् । साबाधं सान्तरं बन्धकारणं दुःखमेव तत् ॥११।१७३॥ आपातमानरसिका विषया विषदारुणाः। तदुद्भवं सुखं नृणां कण्डूकण्डूपनोपमम् ॥११।१७४॥ दग्धवणे यथा सान्द्रचन्दनद्रवचर्चनम् । किंचिदाश्वासजननं तथा विषयजं सुखम् ॥११११७५॥ विषयाननुभुजानः स्त्रीप्रधानान सवेपथुः । श्वसन प्रस्विन्नसर्वाङ्गः सुखो चेदसुखीह कः ॥११।१८४॥ आयासमात्रमत्राज्ञः सुखमित्यभिमन्यते। विषयाशाविमूढात्मा श्वेतास्थिदशनैर्दशन् ॥१११८५॥
SR No.090010
Book TitleAdi Puran Part 1
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages782
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Mythology, & Story
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy