________________
सूक्तिसंचयः
नांकरः स्थाद्विना बीजाद्विना वृष्टिर्न वारिदात् । छत्राद्विनापि नच्छाया विना धर्मान्न संपदः ॥५॥१८॥ दयामूलो भवेद्धर्मो दया प्राण्यनुकम्पनम् । दयायाः परिरक्षार्थ गणा दोषाः प्रकीर्तिताः ॥५॥२१॥ जन्ममृत्युजरातंकभयानां को न गोचरः ।६।१०। विशुद्धपरिगामेन भक्तिः किन्न फलिष्यति ।६।११०॥ पुण्यैः किं नु न लभ्यते।६।१९५॥ भक्तिः श्रेयोऽनुबन्धिनी ७२७६। सुखं दुःखानुबन्धीदं सदा सनिधनं धनम् । संयोगा विप्रयोगान्ता विपदन्ताश्च संपदः ।।८।७७॥ धुनोति दव| स्वान्तात्तनोत्यानन्दथु परम् । धिनोति च मनोवृत्तिमहो साधुसमागमः ॥९।१६०॥ मुष्णाति दुरितं दूरात्परं पुष्णाति योग्यताम् । भयः श्रेयोऽनुबध्नाति प्रायः साधुसमागमः ॥६।१६१॥ स्वदुःखे निघणारम्भाः परदुःखेषु दुःखिता। नियंपेक्षं परार्थेषु बद्धकक्ष्या मुमुक्षवः ॥६।१६४॥ रसोपविद्धः सन् धातुर्यथा याति सुवर्णताम् । तथा गुरुगुणाश्लिष्टो भव्यात्मा शुद्धिमृच्छति ॥६१७४॥ न विना यानपात्रेण तरितुं शक्यतेऽर्णवः । नर्ते गुरूपदेशाच्च सुतरोऽयं भवार्णवः ॥१७॥ बन्धवो गुरवश्चेति द्वये संप्रीयते नणाम् । बन्धवोऽनव संप्रीत्यै गुरवोऽमुत्र चात्र च ॥६।१७७॥ पुण्यः किन्नु दुरासदम् ।।१८७॥ ऋते धर्मात्कुतः स्वर्गः कुतः स्वर्गादृते सुखम् । तस्मात्सुखार्थिनां सेग्यो धर्मकल्पतरुश्विरम् ॥१८॥ धर्मात्सुखमधर्माच्च दुःखमित्यविगानतः । धमकपरतां धत्ते बुधोऽनर्थजिहासया ॥१०॥१४॥ धर्मः प्राणिल्या सत्यं शान्तिः शौचं वितृष्णता। ज्ञानवैराग्यसंपत्तिरधर्मस्तद्विपर्ययः ॥१०॥१५॥ तनोति विषयासंगः सुखसंतषमशिनः । स तीव्रमनुसंधत्ते तापं दीप्त इवानलः ॥१०॥१६॥