________________
अनुयोगचन्द्रिका टीका सूत्र २१३ नारकादीनामौदारिकादिशरीरनि० ४२१ नारकैर्मुक्तान्यौदारिकशरीराणि तिर्यगादिनानाभवेषु प्राक् संभवन्ति, तानि
औधिकमुक्तौदारिकशरीरवद् वाच्यानि । तथा नैरयिकाणां वैक्रियशरीराण्यपि बद्धमुक्तभेदेन द्विविधानि बोध्यानि । तत्र बद्धानि क्रियशरीराणि असंख्येयानि, नारकजीवानामसंख्येयस्वाल प्रतिनारकजीवमेकैकवैक्रियशरीरसद्भावात् । एतानि शरीराणि कालतः उत्सर्पिण्यवसर्पिणीषु यापन्तः समया भवन्ति तावत्संख्यकानि बोध्यानि । क्षेत्रत:-असंख्येयाः श्रेणयः प्रवरस्यासंख्येयमागे। प्रतरस्य असंख्येयभागे वर्तमाना या असंख्येयाः श्रेणयस्तासां ये प्रदेशास्तत्संख्यकानि भवन्ति एतानि शरीराणि क्षेत्रत इत्यर्थः । ननु प्रतरासंख्येयभागेऽसंख्येया योजनकोटयोऽपि भवन्ति, सत्किमेतावत्यपि क्षेत्रे या नभाश्रेणयो भवन्ति ता इह गृह्यन्ते । इति चेदाह-वासि णं सेढीण' इत्यादि-तासां श्रेणीनां प्रवरासंख्येयभागवयसः ख्येयश्रेणीनां विष्कम्मचिःविस्तरश्रेणिरिह गृह्यन्ते, न तु प्रतरासंख्येयभागः वर्यसंख्येययोजनकोटथात्मकक्षेत्रवर्तिनमात्रेणिः । इयं विष्कम्भपूचिः कियत्मः माणा गृह्य ते ? इत्याह-'अंगुलपढमवम्गमूल' इत्यादि। इयं ..विष्कम्भसूचिः द्वितीयवर्गमूलगुणितपथमवर्गमूलप्रमाणा बोध्या। अयं भावा-अंगुलप्रमाणे प्रवरक्षेत्रे या श्रेणिराशिस्तत्रासंख्येयानि वर्गमूलानि भवन्ति । तत्र प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितम् । एवं च सति यावत्योऽत्र श्रेणयो लभ्यन्ते तावत्ममाणा विष्कम्भसचिर्भवतीति । ओदं बोध्यम्-वस्तुतोऽसंख्येयपदेशात्मके पतरक्षेत्रेऽसस्कल्पनया षट्पञ्चाशदधिकद्विशतश्रेणयो (२५६) भवन्ति । अत्र प्रथमः वर्गमूलं षोडश- १६ द्वितीयवर्गमूलं चत्वारः ४, चतुर्मिषोडशगुणिता जाता; श्चतुष्षष्टिः । असत्कल्पनया कल्पितैषा चतुष्षष्टिः श्रेणयो वस्तुतोऽसंख्येया: श्रेणयो भवन्ति । एतावच्छेश्यात्मिका विष्कम्मचिरिह गृह्यते इति । प्रकारान्तरेणासुमेवार्थमाह-'अहव गं' इत्यादि-अथवा खलु अंगुलद्वितीयवर्गमूलधनप्रमाणमात्रा श्रेणयः। अयं भाव:-अंगुलप्रमाणपतरक्षेत्रवर्तिनः श्रेणिराशेयद द्वितीयवर्गमुलं चतुःसंख्यकमनन्तरमभिहितं, तस्य यो घनचतुष्षष्टिस्वरूपस्तत्पमाणमात्रा:-तत्संख्यकाः श्रेणयोऽत्र बोध्या । अत्र प्ररूपणैव भियतेऽर्थस्तु स एव । एवं चासत्कल्पनया चतुष्पष्टिसंख्यकत्वेनोक्तानां वस्तुतोऽसंख्येयानां श्रेणीनी यः प्रदेशराशिस्तावत्संख्यकानि नैरयिकाणां बद्धवैक्रियशरीराणि भवन्ति । प्रत्येकशरीरस्वान्नैरयिका अप्येतावत्संख्यका भवन्ति । पूर्व तु नारकाः सामान्येनैवासंख्येया उक्ताः, अत्र तु तेषां शरीरविचारः प्रस्तूयते, अतस्तेषां शरीरमपि असंख्येयकं प्रतिनियतस्वरूपं सिध्यति । एवमन्यत्रापि सर्वे प्रत्येकशरीरिणः स्वस्व. बद्धशरीरसमसंख्यका बोध्या इति । नैरयिकाणां मुक्तवैक्रियशरीराणि तु मुक्तौदा.