________________ नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः।।76।। राज्ञां व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः। यदादिशसि तत्काभ्, राजन्नेवं स्थिते सति।।77।। राजा प्राह समाचार, प्राग्भूपानां वयं दृढ़म्। पालयामो गुणवता, पूजातूल्लङ्घयेम न।।78।। भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधते युष्मदीयं तद्राज्यं नात्रास्तिसंशयः।।79।। “उपरोधेन"नो यूयममीषां वसनं पुरे। अनुमन्यध्वमेवं च, श्रुत्वा तेऽत्र तदादधुः।।80॥ सौवस्तिकस्ततःप्राह, स्वामिन्नेषामवस्थितौ। भूमिः काप्याश्रयस्यार्थं, श्रीमुखेन प्रदीयताम्।।81।। तदा समाययौ तत्र, शैवदर्शनिवासवः। ज्ञानदेवाभिधःक्रूरसमुद्रविरुदार्हतः।।82।। अभ्युत्थाय समभ्यर्च्य, निविष्टं निज आसने। राजा व्यजिज्ञपत्किंचिदथ (द्य प्र.) विज्ञप्यते प्रभो!।।83।। प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम्। इत्याकर्ण्य तपस्वीन्द्रः, प्राह प्रहसिताननः।।84।। गुणिनामर्चनां यूयं, कुरुध्वं विधुतैनसम्। सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिः।।85।। शिव एव जिनो, बाह्यत्यागात्परपदंस्थितः। दर्शनेषु विभेदोहि, चिह्न मिथ्यामतेरिदम्।।86।। निस्तुषव्रीहिहट्टानां, मध्येऽत्र (त्रि प्र.) पुरुषाश्रिता। भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि।।87।। विघ्नः स्वपरपक्षेभ्यो, निषेध्यःसकलो मया। द्विजस्तच्च प्रतिश्रुत्य, तदाश्रयमकारयत्।।88।। ततःप्रभृति संजज्ञे, वसतीनां परम्परा। महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः।।89।। / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /086 )