________________ यावद्विद्याविनोदोऽयं, विरञ्चेरिव पर्षदि। वर्त्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः।।63।। ऊचुश्च ते झटित्येव, गम्यतांनगराबहिः। अस्मिन्न लभ्यते स्थातुं, चैत्यबाह्यसिताम्बरैः।।64।। पुरोधाःप्राह निर्णेयमिदं भूपसभान्तरे। इति गत्वा निजेशानमिदमाख्यातभाषितम्।।65।। इत्याख्याते च तैः सर्वैःसमुदायेन भूपतिः। वीक्षितःप्रातरायासीत्तत्र, सौवस्तिकोऽपि सः।।66।। व्याजहाराथ देवास्मद्गृहेजैनमुनी उभौ। स्वपक्षेस्थानमप्राप्नुवन्तौ, संप्रापतुस्ततः।।67।। मया च गुणगृह्यत्वात्, स्थापितावाश्रये निजे। भट्टपुत्राअमीभिर्मे, ग्रहिताश्चैत्यपक्षिभिः।।68।। अत्रादिशत मे झूणं, दण्डं वाऽत्र यथार्हतम्। श्रुत्वेत्याह स्मितं कृत्वा, भूपालः समदर्शनः।।69।। मत्पुरे गुणिनोऽकस्माद्देशान्तरत आगताः। वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ? / / 70 / / अनुयुक्ताश्च ते चैवं, प्राहुः शृणु महीपते!। पुरा श्रीवनराजाऽभूत्, चापोत्कटवरान्वयः।।71।। स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण सूरिणा। नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा।।72।। पंचासराभिधस्थानस्थितचैत्यनिवासिना। पुरं स च निवेश्येदमत्र, राज्यं दधौ नवम्।।73।। वनराजविहारंच, तत्रास्थापयत प्रभु। कृतज्ञत्वादसौ तेषां, गुरुणामर्हणं व्यधात्।।74।। व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम्। संप्रदायविभेदेन, लाघवं न यथा भवेत्।।75।। चैत्यगच्छयतिव्रातसम्मतो वसतान्मुनिः। / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /085 )