________________ लिखी है। देखेंचान्द्रे कुलेऽजनि गुरुजिनवल्लभाख्योऽर्हच्छासनं प्रथयिताऽद्भूतकृच्चरितः। तच्छिष्यमौलिजिनदत्तगुरुप्रवीरश्चक्रेऽखिलं विधिपथं सुवहं समन्तात्।।2।। तच्छिष्यो जिनचन्द्रसूरिरुदगाच्चिरनन्तैर्गुणैः, सौन्दर्यादिभिरुच्यते स्म कृतिभिर्यः पञ्चविंशो जिनः। तत्पट्टाब्जसितच्छदो जिनपतिः सूरिः प्रतापाद्भुतो, माद्यद्वादिगजेन्द्रसिंह उदयत्सौभाग्यभाग्यावधिः।।3।। ज्ञानस्वर्दुभवैर्वरस्तवसुमैः सत्सौरभैरद्भुतैस्तत्कालग्रथितैर्जिनौकसि जिनान् येऽभ्यर्चयन्त्यन्वहम्। यत्कीर्तिप्रसवस्रजा तु जनता भूषत्यशेषा दिशस्ते श्रीसूरिजिनेश्वरा युगवरास्तत्पट्टमध्यासते।।4।। वृत्तेर्दुर्गपदप्रबोधरसवत्येषा जगत्यै भृशं निःस्वेनापि धिया व्यधायि सुगुरोरस्य प्रसादान्मया। तन्निःशेषविशेषबोधनिपुणैरेषाऽधिकं सस्पृहैः सद्बुद्ध्यङ्गविवृद्धये रविविभा यावन्मुदा स्वाद्यताम्।।5।। षट्तांगमशब्दलक्ष्ममुखसद्विद्याब्धिकुम्भोद्भवैर्यैः काव्यं मुखशुक्तिनं कृतधियां निर्दूषणं सद्गुणम्। दीप्रं चाऽपि कृतं सतामधिहृदं हारायते तैरसौ, श्रीलक्ष्मीतिलकाभिषेकतिलकैर्ग्रन्थो ह्युदज्वल्यत।।6।। विक्रमनृपवर्षेऽष्टाविंशत्यधिके त्रयोदशशतेऽसौ 1328 / पूर्णः शुच्यां प्रतिपदि राधेऽश्विन्यां गुरौ वारे।।7।। चतुःसप्ततिशत्यस्यैकनवत्यधिका मितिः / चतुः सप्ततिमाधत्तां....... मतां मताम् (?) / / 8 / / प्रशस्तिग्रंथाग्रं 7491 ।।छ।। 26.सं. 1305 में जिनपालोपाध्यायजी ने 'खरतरगच्छालङ्कार गुर्वावली' लिखी थी। उसमें भी खरतर बिरुद प्राप्ति का उल्लेख नहीं किया है। वह सिंघी प्रकरण माला से प्रकाशित हो चुकी है। देखियेः इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /109