SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ aDiMilurali जान जान नजि -- - मेतार्य | ण्यकार्याणि कुर्वन् सप्तक्षेत्र्यां स्वां श्रियं वपतिस्म. अथ तौ द्वावपि राजपुत्रपुरोहितपुत्रौ शुद्धं चारित्रं पा लयतःस्म. परं स पुरोहितपुत्रस्तु द्विजजातित्वात किंचिच्छरीरवस्त्रादिमलं वीक्ष्यैवं विचारयति, यदत्र | साधुधर्मे शौचं नास्ति, इत्यादिचिंतनपरः स जुगुप्सां करोति. ततस्तौ द्वावपि पालितसंयमौ क्रमान्मृत्वा al | देवलोके सुरावभूतां. अथ तत्र स्वर्गसुखान्यनुभवंतौ तौ द्वावपि पूर्वभवस्नेहान्मिथः प्रोचतुः, आवयोर्यः / पूर्व स्वर्गाच्च्युत्वा मनुष्यो भवेत्, स स्वर्गस्थेन देवेन समेत्य धमें प्रतिबोधनीयः, अथैवं कृतप्रतिज्ञयो / स्तयोर्विप्रजीवः पूर्व स्वर्गाच्च्युतो राजगृहे पुरे कस्यचिच्चांडालस्य भार्यायाः कुक्षौ पुत्रत्वेनावातरत्. सा जच चांडालप्रिया कस्यचित् श्रेष्ठिनों गृहे कचवरापनयनादिकार्यं करोतिस्म. तस्य श्रेष्ठिनो गर्भवत्या भार्याया सा चांडालपत्नी मांसभक्षणदोहदं रहोवृत्त्या पूरयामास. ततस्तयोर्द्वयोः परस्परमतीवप्रीतिर्जाता. अथान्यदा तां श्रेष्ठिपत्नी मलिनास्यां निरीक्ष्य चांडालप्रियापृच्छत्, हे सखि ! स्वामिनि! अधुना तव मनः कथं दूयते? | किं त्वं भापमानितासि ? वाऽन्येन केनापि तव किमपराधः कृतोऽस्ति ? तदा श्रेष्ठिनी जगौ, हे सखि! / कस्याग्रेऽहमात्मनो दुःखं प्रकाशयामि? यतो मे यदपत्यं भवति, तन्न जीवति कर्मक्शात, अथ किं क ---- - ---- MERE to falima ED न in a ajaran a maa -- -- -- C.Gunratnasuri M.S. --- Jun Gun Aaradhell
SR No.036451
Book TitleMetarya Muni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages16
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy