SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तर्का सूत्र वतारः // 24 // जगत आबाधायाः परिहरण लाभायेति / तत्राल्पत्वं सङ्कल्पादिजस्य वधस्य करणात् विरमणस्याल्पत्वं, त्रिविर्धात्रविधत्वेनाकरणात / अत एवात्र सर्वस्मात् प्राणातिपाताद्विरमणमितिवन्नासमासः, किन्तु सर्वत्राल्पत्वस्य विवक्षणात् स्थूलकप्राणातिपातविरमणमिति समस्तनिर्देशः। ननु श्रमणोपासकानां केषाश्चिदेकादशीप्रतिमा प्रतिपन्नानां प्राणातिपातात् त्रिविधत्रिविधेनापि विरतिर्भवतीति नियुक्तिकारादिवचनात् किं ताशानां तेषां सर्वस्मात् प्राणातिपाताद्विरमणं भवतीति चेत्। सत्यं, नियुक्तिकारादिवचनात् तेषां तादृशानां केषाश्चिद्भवतु त्रिविधत्रिविधेन प्राणातिपातानिवृत्तिः, परं सर्वस्मात् प्राणातिपाताद्विरमणस्य प्रत्याख्यानं तु अगारानिष्कम्यानगारिता प्रतिपन्नानामेव भवति, देशविरतिहि अप्रत्याख्यानकषायक्षयोपशमजन्या, सर्वविरतिस्तु प्रत्याख्यानावरणक्षयोपशमादिजन्या। अत एव समुत्पन्नकेवला असम्भाव्यमानपापबन्धा अपि न प्रतिपन्नाश्चत् सर्वविरतिं प्राग पश्चादपि प्रतिपद्यन्ते चिरायुष्का. स्वलिङ्गसिद्धा एव भवन्तीति / तथाच सावधप्रत्याख्यानाय करोमि भदन्त ! सामायिकमित्यादेरुश्चारणाभावेऽपि करणं, गृह्यादिलिङ्गत्यागेन स्वलिङ्गस्य स्वीकरणं न रागद्वेषस्वरूप, पान वा रागवषयोः कार्य तत्, निरभिष्वतरूपत्वात्। एवमेव यावज्जीवं देवगुरुधर्मेषु दृढ आन्तरः प्रतिबन्धो न K कषायरूपस्तेन तस्य यावज्जीवमवस्थानेऽपि नानन्तानुबन्धित्वमिति। अन्यथा हि वीतरागाणां सर्वशानां HI मोक्षमार्गस्योपदेशोऽन्येषां तत्स्वीकारण नव युक्तं स्यात्, न च तीर्थस्थापनादि स्यात् , तत्वतो विषयसुखGULसाधनानामेव रागद्वेष्मोहकार्यत्वमिनि ध्येयमिति / ननु श्रमणोपासकाः स्वशक्तिमनतिक्रम्यानिगृह्य च यथाशक्ती तिवचनानुसारेण प्रतिपद्यरन् अणुवतानि, परं प्रतिपत्तिशम्देन तेषामणुवतानां प्रतिपत्तिस्तु गुरोः समीप पव कर्तव्या। कथ्यते च-गुरुमूळे सुयधम्मो पडिवजेजा इत्तरं इयरं वेति, परं गुरवः कथं तेषां तानि तथाविध. तया प्रत्याख्यापयन्ति यतो गुरषो हि त्रिविधत्रिविधेन प्राणातिपातादिभ्यो निवृत्ताः, तथानिवृत्तानां च तेषां प्राणवधादीनामनुमतेः स्पष्टतयाऽस्ति निषेधः, अनुमतिश्च सहवासानिषेधप्रशंसेति त्रिविधतया गीयते, तथा मुत्कलय्यानुमति श्रावकाणां प्रत्याख्यापयितॄणां गुरूणां कथं नानुमतिदोषदुष्टत्वमिति चेत् / सत्य, पर गुरुणामेष पर्व घों यदूत-पाक सपापस्थानेभ्यखिविधत्रिविधानवृत्तिरूपां सर्वविरतिमेव देशयन्ति, परं श्रोतारो यदितां प्रतिपत्तमसहा अनुद्यताश्च, तहि ते श्रोतारः सर्वथा पापस्थाननिवृत्तिरहिता मा भूवनिति देशविरतिं पश्चा: OOO00CC // // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhal
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy