________________ ता बतार सूत्र // 25 // FICE कथयन्ति, तथा च गृहिपुत्रमोक्षज्ञातेन त्रिविधादिना पापस्थानान्यमुंचतां श्रावकाणां द्विविधत्रिविधादिनापि प्रत्याख्यापयन्तीति। साधूनां तथा प्रत्याख्यापयतां तथाविधं प्रवृत्तत्वात् न कणिकापि दोषस्य। यद्यप्यणुवताना प्रतिपत्तिद्विविधत्रिविधादिना श्रावकाणां भवति, परं मिथ्यात्वस्य तु त्रिविधत्रिविधेनापि भवति प्रत्याख्यानं, परं तत् प्रत्याख्यानं मिथ्यात्विसहवासनिषेधादिना न भवति, नगरादिनिवासिनां नृपादीनां मिथ्याक्त्वस्याभाषस्य नियमाभावात् / अत एव सम्यक्त्वे राजाभियोगाद्या आकाराः षडभिधीयन्ते, परं श्रद्धारूपस्य. सम्यक्त्वस्य स्वीकाराविपरीतश्रद्धारूपं मिथ्यात्वं विवक्ष्य तस्य त्रिषिधत्रिविधेनापि स्यादेव प्रत्याख्यानं, राजाभियोगादयस्त्वाकारा 'नो मे कप्पड अञ्जप्पभिई अन्नउत्थिये त्यादिरूपतया स्वीकृतस्य तथाविधश्रद्धापूर्वकस्यान्यतीर्थीयदानादिक्रियानिषेधरूपस्य सम्यक्त्वस्य / अत एव राजाभियोगाद्याकारप्रसन्ने तथाक्रियाविषया एव दृष्टान्ता आवश्यकवृत्त्यादिषु कथ्यन्ते इति / ननु 'मूलं द्वारं प्रतिष्ठान-माधारी भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वमिदमुच्यते।' // 1 // इति वचनात् 'सम्मत्तमूलं पंचाणुष्वइयमित्यादिवचनाञ्च श्रमणोपासकैरादौ सम्यक्त्वमेव स्वीकार्य भवति, अन तु कथं सत्प्रतिपत्तिोंक्तेति / प्रथमेन पापप्रतिघातगुणवीजाधानसूत्रेणैव सम्यक्त्वस्यार्थतो महता प्रबन्धेनोक्तत्वादत्र नोक्तमिति, परं सम्यक्त्वस्य स्वीकारोऽणुक्तानामादावावश्यक एव / अत पवोच्यते-'इन्ध उ समणोवासगधम्मे' इत्यत्रात्रशब्देनाहतधर्मे इत्येव कथ्यते, युक्तमेव च तस्, यतः स्थूलजीववधाद्विरतिं कुर्वद्भिरवश्यं पृटव्यादीनां सूक्ष्माणां जीवतया स्वीकारः कार्यः, स च जैनशासनश्रद्धानरूपे सम्यक्त्व एव,, अत एवाच्यते 'सत्येव सम्यक्त्वे न्याय्यमणुवतादीनां ग्रहण'मिति / प्राणातिपातेत्यत्र अतिपातशब्देन प्रयन्तेन झाप्यते इदं यदुत-हिंस्यैर्यद्यपि तथाविधमायुकमसातं च प्राकृतं यस्योदयेन तथाविधमसातं स आसाद्य वियोज्यते प्राणेभ्यः, परं हिंसकानां तत्प्राणात्यये यत् प्रेरणं निमित्तभावः सक्लेशाचं तेषां वर्जनीयतास्ति, ततो जायमा नस्य प्राणवियोगस्य व्यापारणमतिपातनं तस्य प्रचुरपापबन्धहेतुत्वावर्जनमत्र / श्रीतत्त्वार्थादावपि 'प्रमत्तयोगात् प्राणव्यपरोपण मित्युक्त्वा णित पत्र प्रयोग उपन्यस्तः। तथा च हिंस्यानां तथाविधकर्मोदयादेव जायते. हिंसन, तत्र के वयमित्यधार्मिकाणां प्रलापो न श्रोतुमपि योग्य इति / ननु प्रतिपत्राणुव्रतानां मांसभक्षणं कल्पते न वा, / यतो मांसाथै प्राणिनां वर्ष वन्ये कुर्वन्ति, न च मांसे मृताना जीवानां अशोपि विद्यते, निरंशतया तदाश्रितानां . // 25 // -Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust