________________ सर्का पश्च वतार CE // 23 // नत्वं, तेन च समनसावद्यत्यागः, सच न तथाविधं विचारमपेक्षते, यादृशो गृहस्थानां परिणामतो. निरभिष्वक्राणां हेतुस्वरूपाभ्यां साभिष्याणां त्यागो निरभिष्वनेतरद्वयमाश्रित्य तस्य प्रवृत्तत्वात् / अत उक्तमणुव्रतप्रतिपत्त्यधिकारे 'अत्यन्तं भावसार'मिति। अत्र 'पडिवजेजे ति यदुक्तं, तत् प्रतिपत्त्यर्हाणां विधाय प्रतिपत्तिमेव ग्रहणं कार्यमणुव्रतानामिति सूचनाय / यथा हि शास्त्रेषु दानार्थस्य समानत्वेऽपि सामान्येन दीनानाथकार्पटिकानां दानावसरे 'दलेमाणे इत्याधुच्यते, परं प्रतिपत्तेरहभ्यो यदा सत्कारपूर्वकं सभक्तिकं दानं दातव्यं भवति, तदा 'पडिलामेमाणे' इत्यादयः शब्दाः प्रयुज्यन्ते। अत एव च श्रीभगवत्यां यदसंयतेभ्यो दाने एकान्तपापं फलमुक्तं तत् सतच्छते / तत्र प्रासुकादिविशेषणं यस्मात् संयतानामुचितं दाने तदुक्तं, तथा 'पडिलामेमाणे' इत्यादि चोक्नं, तथा च नानुकम्पादिदानानां व्युच्छेदप्रसङ्ग एकान्तपापानुबन्धिता वा, ततश्च भगवद्भिरर्हद्भिः क्षायिकादिसम्यपत्वलभ्यजिननामकर्मण उदयात् यत् प्रवर्तितं सांवत्सरिकं दानं तस्य शासनप्रभावकताऽनुकम्पाहेतुता च न विरुध्यते इति / आगमेष्वपि च परिव्रज्याप्रतिपस्यादिषु 'पडिवजाइ'त्ति 'पडिवजिऊणे'त्याद्यवोच्यते। किश्चात्र पञ्चानामणुक्तानां द्वादशानां वा व्रतानामुद्देशाभावात् 'तंजहे ति, तद्यथेत्यर्थकमखण्डमव्ययमन्यत्र प्रोक्तक्रमोपदर्शकतया पठ्यमानमप्यत्र तद्यथेत्यखण्डमव्ययं प्रतिपत्तिरीतेः प्रदर्शनार्थमवसेयं, तथाचाणुवतानां वक्ष्यमाणरीत्या प्रतिपत्तिः कार्या, तथा च स्थूलप्राणातिपातविरमणोदीनां यथाक्रमत्वं ज्ञापित। अत एव पञ्चानामणुव्रतानां द्वादशानां व्रतानां वा भडकसळ्यायां न क्रमोत्क्रमजनिता भङ्गाः, प्रथमादित्वं चैवमेव स्थूलप्राणातिपातविरमणादीनां तत एव साधितं मन्तव्यं / किञ्च- 'थूलगपाणाइवायवेरमण'मित्यत्र स्थूलानां प्रसानां प्राणातिणताद्विरमणे सत्यपि यत् ..कप्रत्ययं समानीय : स्थूलकमित्युच्यते, तत् स्थूलप्राणातिपातविरमणस्याप्यल्पार्थत्वबोधनाय, यतस्त्रसानां वधाद्विरमणमपि सङ्कल्पादिजनितात् कृतं, नारम्भादिजनितात्, न च त्रिविधत्रिविधादिभिर्भनेरपि, किन्तु द्विविधत्रिविधादिना तद्विरमणं विधायानुमतिस्तु नैव प्रत्याख्याता, न च तद्विरमणमिष्टं गृहस्थावासान्मतमिति स्वल्पार्थे कप्रत्ययः समानीतः। किञ्च-स्थूलप्राणिनोऽत्र स्थूलप्राणशब्देन वाच्याः, यतः न प्राणिनां तारतम्येन हिंसकानामघस्य तारतम्यं, न च प्राणानां सख्यायास्तारतम्येनापि, किन्तु प्राणानां माहात्म्यानुसारेणैव पापानां तारतम्य, तत एव नान्नभोजननिवृत्तिमाधाय मांसभोजनकरणमुचितं, म च ऋषीणामाबाधामुपेक्ष्य समस्तस्यापि // 23 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhakti