SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पञ्च नर्का सूत्र वतार // 22 // था. के. सा कोचा नगरादीमामभ्यन्तरे बहिर्वा जिनश्चैत्यानि अन्यो या कोऽपि पूज्यवर्गो भवेदासीनस्तदा तां दिशमाश्रित्य सर्वेषां धर्मानुष्ठानानां विधेयत्वमस्ति, क्वचिदतस्तासां चरहिकत्वेनापि व्यवहारो, विशेषावश्यकादिष्वपि 'जाए जिणचेइयाई वेत्यादि दिशमधिकृत्य, क्षेत्रमधिकृत्य 'जिणहरे वे'त्युक्तं, ततो यथाईमणुवतप्रतिपित्सुभिरवश्यं प्रशस्ता दिशोऽप्याश्रयितव्या इति। तत्र दिकशुद्धिरप्युचितविधितयैवावधार्येति / विहिबहुमाणी धण्णा विहिपक्खाराहगा सया धण्णा। जम्हा विहिअप्पओसो न होइ दूरभन्चऽभवाण // 1 // ति पञ्चाशकवचनं, 'जह भोयणमविहिकयमित्यादिप्रकरणान्तरगतं च वचनमनुस्मरतां भव्यानामुचितविधानेनैवानुवतानां प्रतिपत्तिः कर्तव्येत्येवं विधामे न कदाचनापि भाविन्युपेक्षेति / एवमात्मनः शक्तिमनतिक्रम्य तामनिगृह्य च यथोचितविधानेनानुवतानां प्रतिपत्तिविधेयतया याभिहिता सा भावसारमेव कार्या, यतो हि जीवक्षेत्रे उप्तं धर्मबीजं यत्फलमर्पयति तद् | भावानुसारेणैव क्रियायाः शुभाभ्याससंस्कारादिद्वाराऽऽवश्यकत्वेपि धर्मस्य फलं प्राप्यते / यतः सर्वमप्यनुष्ठान तीर्थस्य प्रवृत्यादौ जीवानां धर्मस्य प्राप्त्यादौ चात्यन्तमुपयोग्यपि सत् इच्छाशास्त्रयोगयुग्मपर्यन्तमनुधावति, परं भावस्तु तत्र सर्वत्र प्रवृत्यादौ व्याप्यापि सामर्थ्ययोगमनुरुणद्धि। किश्च-श्रूयते भगवतो नेमिनाथस्य श्रीकृष्णवासुदेवप्रेरितेन पालकेन पूर्वमेव प्रातर्वन्दनं कृतं, परं तत्र भावशून्यत्वादश्वप्राप्तिरूपं लौकिकं फलमपि नाप्तं, शाम्बेन भावतो गृहेऽवस्थायापि कृतस्य वन्दनस्य फलं लौकिकमश्वरूपं प्राप्तं, भगवता च तस्यैव वन्दनमुपबृंहितं / किञ्च-'उकोसं दव्यथर्य आराहिय जाइ अच्चुयं सड्ढो। भावथपणं पावइ अंतमुहुत्तेणं निव्वाण // // मितिगाथयाऽपि भावस्यैव सारतमत्वमाख्यातं, 'इक्को वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ तारेइ नरं व नारिं वा // 1 // इत्यपि सिद्धस्तवोक्तं माहात्म्यं भावस्यैव सारतमत्वमभिव्यनक्ति। किंचरण्य सम्यग्दर्शनात् शैळेशीमपवर्ग च यावत् या याऽऽत्मगुणानामाप्तयस्ताः सर्वा अपि तथाविधभावप्रभवा एव / किञ्च-वैचिच्याद्भावस्य सर्वज्ञानामध्यप्राप्यः सिद्धर्योग्यत्वमापादयन् सामर्थ्ययोगस्य पर्यन्तः शास्त्रकृद्भियोsभिमतः सोऽपि भावसारतापक्षमेव पोषयति, ततो युक्तमुक्तं 'भावसार मिति / यात्रात्यन्तमिति भावसारस्यापि विशेषणं तत अणुवतानां दीर्घविचारपूर्वकं ग्रहणं ज्ञापयति / अत एव सर्वविरतेः प्रतिपत्तिकालः समयमात्रमभिप्रेतः, परं देशविरतेस्त्वान्तमाहूर्तिक एव कालो व्याख्यातः / युक्तिश्चात्र सर्वविरताना सर्वथा निरभिष्व P.P.Ac, Gunratnasuri M.S. Jun Gun Aaradhak // 22 // HAT
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy