SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तर्का वतार मृषावादेनैकेन भवोऽनन्त उपाय॑ते, न ताशानन्तभवोपार्जनमन्येन वधादिनेति द्वितीयत्वं युक्तमेवमस्येति / न च वाच्यं नास्त्येवोत्सूत्रभाषकाणामनन्तसंसारभ्रमणनियमः, कुवलयप्रभादीनामप्येतावत्संसारभ्रमाभावादिति। यतः सूत्रकाराः प्रक्षपयितारश्चोपदिशेयुः प्रज्ञापन्या भाषया, तया च यथा मिथ्यात्ववमनानन्तरमनन्तसंसारभ्रमणनियमस्याभावेऽपि मिथ्यात्वाविनाभूतान् कषायान् अनन्तजन्मानुबन्धस्वभावत्वादनन्तानुबन्धि' न इति कथयन्ति / प्राणवधादिप्रवृत्ता अपि प्रदेश्यादयः स्वर्गभाजो जातास्तथापि प्राणवधादीनि नरकफलानीत्येव वर्णयेयुरिति / किञ्च-सच्चपइन्ना हु ववहात्तिवचनाद् व्यवहारिणां सर्वे व्यवहाराः सत्याधिष्ठिताः। लोकोत्तरेऽपि मार्गे सत्यस्य महाईत्वादेव धर्मविशेषणतया 'पंचमहव्वयजुत्तस्से'त्युक्तावपि 'सच्चाहिटियस्से'त्युक्तं। श्रूयते चैकस्मिन् मृषावादेऽत्यक्तें शेषपापस्थानानां त्यागोऽप्यकिश्चित्करः, सर्वेषामपि पापानां कृताया. अपि प्रतिज्ञाया मृषावादेनापलापप्रसङ्गादिति। ननु 'अनन्तान्यनुबन्धन्ति, 'यतो जन्मानि भूतये। अतोऽनन्तानुबन्धीति, सज्ञाऽऽद्येषु निवेशिते' // 1 // तिवचनात् अनन्तानुबन्धिनोऽनन्तसंसारधर्धकाः। उत्सूत्रभाषकाणां च 'पयमक्खरं च एकंपी'तिवचनानियमान्मिथ्यात्व, मिथ्यात्वं च न कदाचिदपि मिथ्यात्वोदयेन विना भवतीति / यथा समिथ्यात्वानामनन्तानुबन्धिप्रभावादनन्तो जायते संसार इति प्ररूप्यते तथोत्सूत्रभाषिणामन्यथा वेति ! / ये उत्सूत्रभाषका अपि सन्तः स्वमतपोषणमात्रतत्परास्ते तथाविधं तीर्थ नापि द्वेष्टि / यथा मरीचिः पारिवाज्यप्रवर्तकोऽपि न प्रभोरादिनाथस्य शासनाय दृह्यति / केचित् गोशालादिवदन्यथाप्ररूपकाः प्रवर्तकाश्च तीर्थाय द्रोहिणो भवन्ति, तेषु येऽन्त्यास्तेषां बोधेर्दोर्लभ्यं विशेषेण भवति / ततश्च संसारमनन्तमटतोऽपि बोध्युत्पादनसामग्रीमेव न स आप्नोतीति, पताशानाश्रित्योच्यते च नहु लब्भा तारिस दटुं'ति। अदृष्टकल्याणकरत्वमेव तथाविधोत्सूत्रभाषकाणां शेयमिति / अथ यथाहि व्यवहार्यव्यवहारिणां सर्वेषामप्रियतया वधस्यादौ स्थूलप्राणवधविरमण, तदनन्तरं च लौकिकलोकोत्तरमार्गानुगामिनामप्रियतया मृषावादस्य प्रतिभासात्तच्च स्थापितं। अथ सपौरजानपदानां सर्वव्यवहाराणां फलतया व्यापृनिहेतुतया मूलतया प्राणादिभ्योपिकथश्चिदधिकतया धनस्य ग्राहयतया तदपहारे च सकुटुम्बस्यापि विनाशस्य सम्भवाच्चधनस्यादेयताऽस्ति तत एवं च परतिथिकजनचित्तानुवृत्तये धर्ममोक्षयोश्च पुरुषार्थस्य प्रख्यापिता Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust // 8 //
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy