SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तर्का र वतारः धनस्येत्थं लोकानां उपयोगितमत्वादन्यायतस्तदपहारस्यानिष्टत्वाच्च जानपदीमेव वृत्तिमाश्रित्यादत्तादानविरमणस्योपन्यासो नायुक्तः। अत एव चात्र परराज्यातिक्रमादेर्महादत्तादानत्वेन वर्णितेऽपि प्रश्नव्याकरणादौ सूत्रे 'उचियं मोत्तूण कला'मित्यादि 'तेणाहडप्पओगे' इत्यादि चातिचारतया देशभङ्गरूपेणाख्यायते, जानपद्यां वृत्त्यां हि तथाप्रकारस्यैव तस्य व्यवहारात्, प्राक्तनयोईयोरविशेषतयाऽऽख्यानं चक्रवादीनां रणसङ्ग्रामादेनिन्दनात्, अस्य तृतीयस्य जानपदी वृत्तिमाश्रित्योपन्यासात् योग्यमेव द्वाभ्यां ताभ्यामानन्तर्यमिति। ननु यद्येवं परमण्डलाक्रमणस्यादत्तादानरूपत्वं तदा कथं श्रीजम्बूद्वीपप्रज्ञप्त्यावश्यकादिषु चक्रवादीनां परमण्डलाक्रमणादेः प्राशस्त्येन वर्णनं कृतमिति चेत् / शृणु, प्राणातिपातमृषावादौ हि पापादुदयमागच्छतो घोरं च पापमनुबन्धयतः, न च तो केनापि प्रकारेण प्रशस्तौ, परं परमण्डलाक्रमणेन परेषां नृपाणां पराजयाजायमानस्य धनादिलाभस्यान्तरायक्षयोपशमजन्यत्वेन परिणामदारुणस्यापि पुण्यरूपतया पुण्यफलतया वाऽभिप्रेतत्वात् तथा तथा तत्र तत्र क्रियमाणं वर्णनं नृपाणामस्ति। शास्त्रकृद्भिराक्षेपिण्यादिषु धर्मकथास्वपि देवर्धिवर्णनमित्यायुक्त्वा कामभोगपरिग्रहरूपत्वेऽपि देवादीनां वर्णनमनुमतं। धर्मस्य साध्ये मोक्षफळे सत्यपि यावद्भवस्थित्यपरिपाकादेन भवति, तावन्तं कालमावश्यकस्य प्राप्यस्याभ्युदयफलस्य न स्यादेवं कथनं, तथा चाचरमशरीरिणां न स्यादेव धर्मे आश्वासः। शास्त्रवचन चापि प्रोक्तमेवानुवदति-पुब्बिं तवसंजमेणं भंते देवा देवलोपसु उववजति'त्ति व्याख्याप्रज्ञप्त्यादिषु, 'सरागसंयमसंयमासंयमत्यादि तत्वार्थे, 'अणुव्वयमहव्वर हि येत्यादि कर्मग्रन्थेषु च प्रतिपादितं / इत्यादिषु बहुषु शास्त्रेषु स्पष्टतयोक्तमेव प्राप्यमपि धर्मफलमिति। यद्यपि 'उचियं मोत्तूण कला'मित्यादिना स्तेनाहृतप्रयोगादिना च जायमानस्यार्थलाभस्य लाभान्तरायादिक्षयोपशमोद्भूतताऽस्ति, परं स लाभ इहलोकेऽपि परिणामविरस इति तस्यातिचारत्वेनोपन्यासः, परलोकापायनिबन्धनानामनिष्टत्वेऽपीहलोकापायनिबन्धनानां विशेषेणानिष्टत्वेनाभिधानात् / अत एव धर्ये ध्याने अपायचिन्तनस्य विपाकचिन्तनस्य च भेदेनोपन्यासो युक्तो भवति, अन्यथैहलौकिका अप्यपाया विपाकरूपा विपाकभवाश्चेति न स्याद्भेदेनोपन्यासः। तदेवं जानपदी वृत्तिमाश्रित्य स्थूलमदत्तादानं तत्सम्बद्धं तद्विरमणं चाभिधाय सपौरजानपदानां कुलीनानां सर्वस्वनाशेनाऽपि स्वीयकलत्राणां रक्षण // 9 // MP.AC.Gunratnasuri M.S. * Jun Gun Aaradhak Trust
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy