________________ // 9 // यैव वाक्यसन्तत्या तस्य सर्वज्ञता वेविद्यते, तर्हि तु कस्यचिदेव मात्रयाऽल्पया चुक्कस्खलितेनासर्वज्ञता| भागमो. | घोतिका स्याद्वाक्यसन्ततिरिति न वाक्यसंहत्या सत्यसर्वज्ञताया निर्णयो विधातुं पार्यते, न च सर्वज्ञा- II पञ्चसत्रद्वारककृतिA सर्वज्ञतयोरस्ति किञ्चिचिह्न तथाविधं, येनाविनाभूतेन सार्वश्यप्रत्ययो विधातुं सुकरः स्यात् / न चैवं वार्तिकम् सुदेवकुदेवत्वयोविभागः कर्तुमशक्योऽसम्भाव्यो वा ? किन्तु सर्वश्रेयसां मूलस्य यथावस्थितवादित्वस्य यथा | सन्दोहे सार्वयं मूलं, तथैव सार्वज्यस्याप्यविनाभूतं मूलमस्त्येव वीतरागत्वं / तत्र च यद्यपि वीतरागत्वसिद्धथै न कश्चिद्वीतरागतया प्रतिबद्धमस्ति किश्चित्तथाविधं गमकं चिह्न, तथापि वीतरागतायाः प्रतिपक्षभूतं रागस्य द्वेषस्य मोहस्य च गमकमस्त्येव तथाविधं चिह्नं, तथा चान्वयव्याप्त्या वीतरागत्वस्यासिद्धत्वेऽपि व्यतिरेकव्याप्त्या वीतरागत्वाभावसाधनं न दुष्करं, सिद्धे च तस्मिन् तद्वतः असर्वज्ञत्वकुदेवस्वायथावस्थितवादित्वादयः स्वत एव सिद्धाः। न च वाच्यं गृह्यन्यलिङ्गसिद्धिवादिनां जैनानां मते व्यतिरेकिणो हेतोरेव नास्ति सिद्धिरिति, यतो ये हि गृह्यन्यलिङ्गसिद्धा उच्यन्ते, ते हि यद्यन्तर्मुहूर्त्ताधिकायुष्काः स्युस्तहि तेऽवश्यं स्त्रीशस्त्राक्षमालादिवियुता एव भवेयुः, स्वलिङ्गग्रहणस्य तेषामप्यावश्यकत्वात् / ततः IN/ सदा स्त्रीशस्त्रादिधारका ये तेषां तथाकालिक्या व्यतिरेकव्याप्या न चिद्वतां किञ्चिद्वाधकमिति / न R च वाच्यमेवं व्यतिरेकव्याप्त्या वीतरागत्वं तन्मूलं च साश्यं सिध्येत् , न तु सुदेवत्वं, यतः सर्वज्ञात | हि प्रति उत्सपिण्यवसर्पिणीरसख्या भवन्ति, सुदेवास्तु चतुर्विशतिरेवेति / सुदेवत्वं हि न केवलं ब्वतिरेकव्याप्त्या सिद्धेन वीतरागत्वेन साध्यते, किन्तु तया कुदेवत्वाभावो निर्णीयते / एवं चायोग- / / | व्यवच्छेदार्थोऽयमारम्भो, नान्ययोगव्यवच्छेदार्थः। सिद्धे चैवं कुदेवत्वाभावे वीतरागत्वसिद्धया सार्वश्य| सिद्धिः / तस्यां च यथावस्थितवादित्वादिसाधनं सुकरमेव, सिद्धेष्वेव चैतेष्वभीप्सिताऽर्हतां भगवतां || Jun Gun Aaradhak Trust . // 9 // VIP.P.AC.Gunratnasuri M.S.