________________ पञ्चसूत्र // 89 // ___ आगमोः / यथाख्यातचारित्रप्रतिबन्धकतया सज्वलनाश्चेति वर्गचतुष्कवर्तिनः क्रोधमानमायालोभाः कषाया इत्येव द्वारककृति- कथ्यते, हास्यादिनवकं सनिमित्तमितरथा वाऽऽविर्भवन्नोकषायशब्देनाभिधीयते, परं न क्वापि कर्मप्रकृतीनां | मूलेघूत्तरेषु वा भेदेषु रागद्वेषमोहा इति दोषत्रय्युत्कीर्त्यते, तथापि जीवस्य यत् स्वास्थ्यं तच्चलनं / वार्तिकम् सन्दोहे रागद्वेषमोहरूपं, ततश्च द्वेषात् क्रोधमानयोः रागान्मायालोभयो!कषायेभ्यो हास्यादिषट्के च या प्रवृत्तिर्जायते सा मोहनीयस्य भेदेषु गुणस्थानक्रमेण क्षय्येषु कर्मभेदेषु मोहत्वेन कषायत्वेन नोकषायत्वेन च / कथ्यते / तत्त्वतस्त्वात्मस्वास्थ्यबाधका रागद्वेषमोहा एव रिपवस्ततः सुष्टूक्तं 'क्षीणरागद्वेषमोहा' इति / | | यद्यप्यनुत्तरपुण्यसम्भारः सर्वज्ञतावगताभिलाप्यानभिलाप्यपदार्थत्वेऽभिलाप्यार्थदेशित्वेन जीवादीनां तत्त्वानां || | द्वादशानां पर्षदां पुरतो युगपत्समग्रश्रोतृजनसंशयच्छेदकारिण्या स्वस्वभाषापरिणामिन्या देशनया सङ्गत्तेवे। व भगवत्स्वईत्सु जगजनचेतश्चमत्कारकारको श्रीमदर्हतां भगवतामहत्ताया अवबोधकश्च भवति, परं जगति / A सर्वेऽपि प्रावादुकाः स्वस्वतीर्थप्रणेतारं सर्वज्ञत्वेन तद्वत्त्वावधारणादेव च यथार्थवस्तुदेशकत्वेनावधारयन्ति / न च तत् तथ्य, यतो जीवानां हि संसारभ्रामककर्मबन्धननिबन्धनभूतौ रागद्वेषौ समोही यावन्न समूलका कष्येते, तावन्न स्वच्छतामविकलामात्मनि धारयितुमलम्भूयते / अतः कार्यभूतमपि सकलसचोपकार-II | मूलनिबन्धनमपि सर्वज्ञत्वादिकमुपेक्ष्य क्षीणरागद्वेषमोहत्वमुदीरितमहतां भगवतां शरणमभ्युपगन्तुकामेन | | भव्यजीवात्मना। तत्त्वत एषामेवात्मस्वरूपबाधकत्वान्निराकार्यता, तन्निराकरणादेव च श्रीमतामर्हतां भगवतां | शरणदानपटुता स्वीकृताऽस्तीति / किञ्च-सुदेवकुदेवानां * विभागे यथावस्थितवस्तुवादिताया निर्णय आवश्यकः, तमन्तरा जगदुद्धारादिक्रिपाया असम्भवात् , परं स निर्णयो यदि परवाक्यसन्ततेः प्रामाण्येन // 9 // क्रियते तर्हि सत्यसर्वज्ञतावत्वेन सिद्धसुदेवत्वस्यापि सुदेवत्वेन निर्णयो विधातुमशक्यः। यदि च तदीय- 11 2 .P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust