________________ आगमो द्वारककृति सन्दोहे 1188 // किञ्च-भगवतां जिनेश्वराणामेवान्योऽपि पुण्यप्राग्भारोऽचिन्त्यो यद्-अपरिमिता अपि श्रोतारो योजनमात्रे क्षेत्रे भगवंद्देशनामृतपानोद्यता देशनाक्षेत्रे स्थातुं शक्नुवन्ति / सर्वेऽपि नरतिर्यग्देवादयो भगवन्मुखपद्म- I पश्चसूत्रविनिर्गतां देशनागङ्गामवगाह्य स्वस्वभाषातया परिणतिमापन्नां देशनावचनततिमवगाहन्ते / एत इवाऽपरेप्य वार्तिकम् तिशया अद्भुततमा भगवतां जिनेश्वराणामेव, अतः सत्यतममेतद् यदुत-भगवन्तो जिनेश्वरा अचिन्त्यपुण्यसम्भारा इति / यद्यपि श्रीमतामर्हतां भगवतां जिननाम्नो बन्धकालाद्विशेषतश्च निकाचनकालादूर्व जायत एवानुत्तरपुण्यप्राग्भारोदयः, तस्मादेव चैकेन्द्रियादिष्वपि गता जात्या एव ते भवन्ति, निकाच-2 नादनन्तरं प्राग्बद्धतथाविधकर्मप्रभावाद् गता नरकेष्वपि नान्यनारकवदनुभवन्त्यसातं, तत एव च 'उववाएण व साय'मित्यादिकायां गाथायां 'कम्मुणो वा वित्ति पठ्यते, देवेष्वपि जातानां निकाचितजिननाम्नां न माल्यम्लानिरित्यादीनि षड् महाऽशोककारणानि भवन्ति, जाता अपि मनुष्यभवे उत्तमसंहननादियुता एव भवन्ति, भवन्ति च तेषामेव भगवतामचिन्त्यपुण्यप्राग्भारादेव देहसौगन्ध्यादिकमतिशयचतुष्कमन्यजगतीजनकल्पनाविषयातीतं, परं तीर्थस्थापनाद्यवसरेषु धर्मदेशनाप्रभावार्थ यत् चतुस्त्रिंशदतिशयसमूहयुतत्वमिन्द्रादिविहिताविच्छिन्नभावार्हन्त्यनिबन्धनमतिशयचतुष्कं च, तत्तुं प्रक्षीणेषु घातिकर्मसु रागादिषु तत्पभावादेव च 'केवलियनाणलंभो नन्नत्थे ख़ए कसायाणमितिवचनाच्चरिते जाते सार्वज्ये भवत्यत आहुः प्रकरणकारा भव्यजीवमुखेन 'क्षीणरागद्वेषमोहा' इति / यद्यपि परमाईतीयेषु कर्मप्रकृत्यादिशास्रेषु जीवानां सम्यक्त्वमूलकतत्त्वत्रयीविषयकाप्रीतिकारकप्रीतिघातकतयाऽष्टादशानां हिंसादीनां पापस्थानानां रत्या चानन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः, पापदेशस्याप्यपरिहारादेशविरतेः प्रतिबन्धका अप्रत्याख्याना आरम्भपरिग्रहविषयकपायाद्यासक्त्या सर्वविरतेः प्रतिबन्धकाः प्रत्याख्यानावरणाः, अकषाय // 8 // RIP.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust