SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पश्चसूत्र // 87 // आगमो- || प्रशस्तं, बध्यते च तदन्तःकोटीकोटीसागरोपमस्थितिकं तन्नामबन्धप्रभावेणैव भावितीर्थकरजीवा अनेकद्धार ककृति | भवेषु निःश्रेयसपथप्राप्तिभावनयाऽवश्यंभावितभावा एव भवन्ति / तीर्थकरभवात्तृतीयस्मिंस्तु भवे अवश्य | वार्तिकम् सन्दोहे | वरबोधिलाभेनैव ते बुध्यन्ते, तत्प्रभावेण च ते परार्थोद्यमिन एव भवेयुः / वरबोधेरनन्तरं श्रीअर्हदादीनां पदानां यदाराधनं कुर्वन्ति, तदपि गौणे स्वनिस्तारणभावे सत्यपि परनिस्तारणहेतुत्वेनैव तादृशे धर्माराधने तेषां भाग्यवतामेषैव भावना यदुत-विद्यमाने एतादृशे भवनिस्तारणपरे श्रीजैनेन्द्रशासने किमिति प्राणिनो भ्राम्यन्ति जन्मजरातकान्तकाकीर्णे भवे, तदेनान् समस्तान् अनेनैव शासनप्रवहणेन निस्तारयामि दुःखजलधेर्भवादिति, एतादृश्या एव भावनायास्तेषामर्हदादिपदानामाराधनात् श्रीजिननाम्नो बन्धो- 19 दयादिषु सर्वेषु शुभरूपायाः कर्मप्रकृतेर्बन्धो निकाचितो जायते, मृताश्च तत एकभवान्तरितास्ते अवश्यं | तीर्थकरा भवन्ति / अत उच्यते-'अचिन्त्यपुण्यसम्भारा' इति / न हि प्राप्य वरबोधि परार्थोद्यतास्ते | भावितीर्थकरजीवा अपि न हि श्रीजिनपदप्रभावजं पुण्यप्राग्भारं जानीतुं शक्ताश्चेतयन्ति चिन्ताविषयमपि / वाऽऽनयन्तीति युक्तमुच्यते 'अचिन्त्यपुण्यसम्भारा' इति / एतादृशात् पुण्यसम्भारादेव गर्भावतारसमय एव ISI गजादिचतुदर्शभ्राजिष्णुमहास्वप्नदर्शनं मातुः, जातमात्रे सुराचलमूर्ध्नि सुरासुरेन्द्रश्रेणिनिर्मितो जन्माभिषेकः, यावनिर्वाणकल्याणकमहोत्सवकृतिरपीन्द्रादीनां, तदेवमपरिमितत्वादचिन्त्यत्वाच्च तदीयपुण्यप्राग्भारस्य कियत्कथ्यते यावत्सर्वेषां सर्वविदां सर्ववित्त्वे समानेऽप्यचिन्त्यपुण्यप्राग्भारास्तीर्थकरा एव तेषां, यतो भगवतां जिनेश्वराणामेवैष पुण्यप्राग्भारोऽचिन्त्यो यत्-तेषां या भविष्यद्वाणी सा यानेव संशयान समूलं यथावदुच्छेत्तुमलम्भविष्णुस्त एव संशयाः. श्रोतृवर्गस्योत्पद्यन्ते, न न्यूना नातिरिक्ताः / न च विहायाचिन्त्यपुण्यप्राग्भारान्वितान् विहाय जिनेश्वरानन्यस्य कस्यापि सर्वविदोऽप्यस्त्येषोऽतिशयः / 15 // 87 // (NIPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036409
Book TitleAgamoddharak Kruti Sandohasya Part 04
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy