________________ पञ्चसूत्र // 86 // भवान्तरे शरणस्य निषेधार्थ, तद्भावे तत्र तस्यापीष्टत्वादेव भवान्तरमावस्यानिच्छनीयत्वाच्च न तत्र आगमो भाविशरणविचारः। यच्च 'मे सेवा भवे भवे तुम्ह चलणाण' मितिपाठेन भवान्तरसेवाप्राप्तिप्रार्थनं क्रियते, ति। द्धारककृतितन्न मुख्यवृत्त्या करणाहमिति तु तत्रस्थेनैव 'वारिजइ जइवि नियाणबंधण'मित्यनेन स्पष्टयत एवेति / वार्तिकम् यावजीवमिति योग्यमेवेति / आभवं न मुञ्चाम्येतान् भगवतः, आजीवनमेतेषामेव भक्तौ तत्परो भविष्यामि सन्दोहे न चान्यान् कानपि तथाविधान् सम्भावयामि यानाश्रितुमुन्मनाः कदाचिदपि भविष्यामीति अनन्यशरणतयैवैतान् भगवतो यावजीवमनन्यमनाः श्रयिष्यामीति / 'मे' इत्यस्मत्पदमसमानशरणाश्रयणद्योतनाथ / तथा चाहमेवासाधारणतया भगवतः श्रयामि मद्विधःशरणं प्रतिपनो न कश्चिद्भवभ्रमणपीडापीडितः प्राणीति ज्ञापयत्यनेन / किञ्च-भ्रान्तः पूर्व समस्तेऽपि जगति. परं क्वाप्यात्मसाधनवानपि याथातथ्ये | नोपलब्धा,सर्वेषामपरतीर्थीयानामर्थकामस्वर्गभूतिकामनापराणां शरीग्तत्पोषणसाधनस्थानसन्तानसमृद्धिसमुदाय| प्रवर्तनादिष्वेव प्रयत्नशीलत्वदर्शनात् / सति चैवं ज्ञानादीनामात्मस्वरूपभूतानामनाविभूतानामाविर्भवनगेगेन लब्धानामपि तेषां निष्पत्यूहं रक्षणपरायणतया या नाथता लभ्या, तस्याः स्वप्नोऽपि न तत्र ज्ञायते, तहि अत्र श्रीमदर्हतां भगवतां शासनं तु सदेवासुरमनुष्यस्य लोकस्य त्रिलोकगतस्य योगक्षेमकरणतत्परतया नाथरूपं, तत्प्रणायकाश्च 'अरिहा ताव नियमा तित्थयरेति वचनात्तस्य शासनस्य नियतं / प्रवर्तका एवेति / सर्वमेतद्विचिन्त्यैव ब्रवीमि 'परमतिलोगणाह'ति, त्रिलोक्यां शासनस्य प्रवर्तनात् / परमत्रिलोकनाथा इति / न च श्रीमदर्हतां भगवतां परमत्रिलोकनाथताऽसम्भविनी, यतस्त एव त्रिलोक्यां / वर्तमानेषु सत्त्वेपु समग्रेषु परमैश्वर्यभाजो भवन्ति / तत्र च हेतुरेक एव, यतस्त एव अचिन्त्यपुण्यसम्भारा इति / विदितमेतद्विदुषां यदुत-सर्वास्वपि कर्मप्रकृतिषु अर्हनामैव तादृशं यद्वन्धोदयादिषु सर्वेषु | // 86 // S P.P.Ad Gunratnasuri M.S. Jun Gun Aaradhak Trust