________________ आगमो IN सनातनपदस्थाः सच्चिदानन्दपूर्णाः शाश्वताः सिद्धा मोक्षमार्गप्रवृत्तिफलरूपाः स्युरिति योग्यमेव द्वितीयं I पश्चसूत्रद्वारककृतिता सिद्धानां भगवतां शरणीकरणमिति / लब्धे मार्गे स्थिरेऽवश्यप्राप्तव्ये निश्चिते च साध्ये तत्प्राप्तये यत्न / वार्तिकम् आस्थेयो बुद्धिमद्भिः, परं स यत्नो नैकाकिनाऽनादिकालीनप्रमादग्रस्तेन साध्यते, न च निःसाधनो यत्नः / सन्दोहे कार्यसाधक इति सहायकाः सन्मार्गोपदेशकाः सहायकाश्चावश्यमेष्टव्याः साधव इति तृतीयं शरणं | ___83 // साधवः / भगवद्भिः केवलिभिः श्रीअहंदादिभिः प्ररूपितं शासनं धर्मरूपं यत् तदेवापवर्गप्रापणप्रवणोऽध्वेति / तस्याप्यसाधारणोपकारकतया तत्त्वतस्त्वपवर्गमार्गरूपतयाऽवश्यं स्वीकरणीयैव शरणतेति योग्यमेवान्यूनाति- I रिक्ततयाऽसाधारणोपकारकतया च चतुर्णामेव शरणानां स्वीकार इति / एवं च चतुरन्तपृथ्वीसाधनसमर्थचक्रवर्तिचक्ररत्नवच्चतुर्गत्यन्तकारकचतुःशरणचक्रे गृहीते ऋषभकुटभेदवद्दष्कृतानां तद्गद्विारा भेदनं, नवनिधानसाधनवञ्च सुकृतानामनुसेवनं च स्वभावसिद्धमेव, तवयमन्तरा तात्त्विकस्य चतुःशरणगमनस्यैवासम्भवात् / एवं च तत्त्वतः पारम्पर्येण सकलस्य मोक्षमार्गस्य सिद्धिरेतत्रितयेनेत्यत आहुः प्रकरणकाराः श्रीमदईतां भगवतां वाक्यानुवादेन-'अओ कायव्वमिणं होउकामेणं ति, यत एतावता ग्रन्थेन साधितमिदं यदुत-चतुःशरणगमन-दुष्कृतनिन्दा-सुकृतानुसेवनैस्तथाभव्यत्वादेविपाकः, तस्माच तथाविधानां पापकर्मणां नाशः, नाशाच्च तथाविधानां पापानां शुद्धधर्मस्य सम्प्राप्तिः, तस्याश्च शुद्धधर्मसम्पत्तेरनादिकर्म| संयोगनिर्वतितस्य भवस्य व्युच्छेद इति / ततो भवविच्छेदानन्तरभाविना . सिद्धावस्थेन भवितुकामेन कर्तव्यमिदं, सावधारणत्वाच्च कर्त्तव्यमेवेदं त्रयमिति / अतः साधितकर्त्तव्यस्यास्य विधेः कालं दर्शयितुमाहुः प्रकरणकारा अनुवादयन्त:-'भूजो 2 संकिलेसेतिकालमसंकिलेसे'त्ति संक्लेशश्चात्र भयानके रोगे IS ME3 // दीर्घकालीने आमये कस्मिंश्चिदपि वा मरणदायिनि प्रसङ्गे उपस्थिते या मनसो व्यग्रता तदुत्थः LAC.Gunratnasuri M.S.' ' Jun Gun Aaradhak Trust