________________ पञ्चसूत्र आगमो. द्वारककृतिसन्दोहे // 8 // | मनुजगतिर्न केवलं पुण्यं पुरस्कृत्य परावर्त्तते परिवर्त। किञ्च-शुद्धधर्मेण घातितेषु घातिषु अघातीनि तु || भवोपग्राहीणीति न भवान्तरमाधातुमलम्भूष्णूनीति पापकर्मक्षय एव भवक्षयशब्देनाभिप्रेत इति। यद्वा शुद्धधर्मशब्देन केवलानि सम्यग्दर्शनज्ञानचारित्राणि न गृहीतव्यानि, किन्त्वयोग्यवस्थाभाविनी सर्वसंवरसर्वशरीर वार्तिकम् विपहाणहेतुनिर्जरामय्यवस्था ग्राह्या / तत्कारणतया पापकर्मवियोगो यदा गृह्यते, तदा सर्वस्यापि कर्मणो | मोक्षपतिबन्धकत्वात् पापकर्मताऽवधार्येति / प्रस्तुतस्तु शुद्धधर्मश्चरमावर्तभाविनी मार्गाभिमुखाद्यवस्था परिगृह्यते, तत्रैव तथाभव्यत्वपरिपाकादेरारम्भात् / अत एव सदन्धमार्गप्रवृत्तिन्यायेन तद्वर्तिनां चेतसो- IN | ऽवक्रगमादिना मार्गानुसारितोच्यते / यद्यप्युपचारतः सकृद्धन्धकादेरप्यस्त्येव योगपूर्वभूमिका, परं तत्त्व- | दृष्टरेवाधिकाराचरमावर्तभाव्येव शुद्धधर्मो गृह्यते / शुद्धधर्मप्राप्तिश्चानन्तशो जाता भव्यानामपि प्राक्, अनन्तशो | ग्रैवेयकोपपातश्रुतेः, परं चरमावर्तभाविनी भावप्राप्ति लक्षयितुं सम्प्राप्तिरिति समा विशेष्यते / ततश्च शुद्धधर्मसम्प्राप्तेः कारणतया पापकर्मविगमो भवबालकालगतमोहविगम इति वाच्यः, तस्यैव चरमावर्तगतशुद्धधर्म- HI सम्माप्तेः प्रतिबन्धकत्वात् / तथाच न सद्वद्यादिभिन्नतयाज्ञानावरणीयादितया वोक्तं पापकर्म नैवात्र ग्राह्यं / अत एव तथाविधस्य तस्य विग तथाभब्यत्वादिभाव एव हेतुतयोक्तः, तदवसरे कालोद्यमस्वभावा दीनामहेतुत्वस्य गौणहेतुत्वस्य वा स्वीकारादिति / परावर्तस्यान्त्ये भाविन्या अपि निरादिकभवविच्छित्तिरस्या एव चरमावर्त्तमाविन्या मार्गप्रवृत्तेरिति नायुक्तम् 'एअस्स णं वोच्छित्ती'त्यादिवचनं, अनन्त्यपुद्गलपरावर्तीयभवबालकालीनमोहपापकर्मविगमस्तथाभव्यत्वभावत एव, तत्रेतरहेतुसरवेऽपि स च भवति कालादेव प्राधान्येन सुकृतादिभावेऽपी'त्युक्तेः कालादेव चरमावर्तलक्षणात् तथाभव्यत्वं, आदितस्तत्परिपाक- // 1 // स्तत्कारणानि चेतराणि गौणतया ग्राह्याणि / अत एव 'जे एवे'त्यादि 'एयस्स णं वोच्छित्ती'त्याद्यनूद्य A - -- -- MP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust