________________ आगमो द्धारककृतिसन्दोहे // 8 // दुःखनिमित्ततां जगतश्च जन्मजराव्याध्याध्यातङ्कमरणादिभिर्व्याप्ततामसारतामशरणतां चावगम्य स्वभावात एव तत्परिहारोद्यताः स्युस्ततो भवस्य हेयता दुःखमयता च नासिद्धेति न तत्साधनाय यत्नः | पश्चसूत्र| प्रकरणकाराणां / तत एव चाहुरनन्तरं प्रकरणकारा:-'एयस्स णं वोच्छित्तीत्यादि, एतच्छब्देनानादिक- / IN वार्तिकम् मसंयोगनिवर्तितस्यानादेर्भवस्य ग्रहः / जीवस्य तु द्रव्यत्वादेव न व्युच्छेदसम्भवः, न च कोऽपि / विवेकी नाशं स्वस्येच्छतीति भवस्यैव व्युच्छित्तिरुचिता / भवस्योच्छित्तिस्तु सामान्येन प्रतिमवं स्वस्ख- जीवितस्यावसानेऽस्त्येवेति तस्यापुनर्भावेन व्युच्छेदस्य ग्रहाय व्युच्छित्तिरित्युक्तं / यद्यपि पुनर्भवाभाव | एव मोक्षः / स च जन्मादिव्यावाधारहितोऽनन्ताव्यावाधज्ञानादिपूर्णश्चेत्युपादेयतया वक्तुं शक्येत, परं तथा- IS स्वरूपो मोक्षः साधुधर्मपालनस्य फलत्वेन परमप्रयोजनतयाऽऽख्येय इति नात्राधिकृतः। किञ्च-सामान्येन सर्वेऽप्यास्तिका अविवादेन मोक्षमाप्ति भवविच्छेदादभ्युपयन्ति, मुक्तानां स्वरूपादिषु अनेकानां विपतिपत्तीनां भावात् , न सोऽत्राधिकृतः, किन्तु सर्वास्तिकप्रतिपन्नं भवविच्छेदरूपमेव फलमत्राधिकृतमिति / यद्वा मोक्षस्य स्वरूपे न काचिच्छ्रोतृणां विधेयता, भवविच्छेदे सति तस्य स्वभावत एव सिद्धत्वात् / श्रोत्पुरुषार्थविषयस्तु. भवविच्छेद एव / अत एव भगवद्भिस्तत्वार्थकारैरपि-'कृत्स्नकर्मक्षयो | मोक्ष' इत्युक्तं, कर्मक्षयस्यैव पुरुषार्थविषयत्वात् / तथा च पञ्चमसूत्रे यन्मोक्षादेः स्वरूपं निरूपितं तत्तत्स्वरूपस्य सिद्धस्य ज्ञापनार्थ, पुरुषार्थविषयतया साध्यं प्रयोजनं तु भवविच्छेद एवेति सुष्ठुक्तमेतस्य | व्युच्छित्तिरिति / यद्यपि 'पुण्यापुण्यक्षयान मुक्ति'रितिवचसः प्रामाण्यात् भवस्य व्युच्छित्तिरभिप्रेता या // 8 // सा शुद्धधर्मान्न भवति, तस्य पापकर्मविगमभवत्वात् पापविगमं प्रति तस्य कारणत्वाञ्चेति, परं 'ठिक अणुभागं कसायओ कुणई'त्युक्तेः स्थितिभा द्वयमपि पापरूपेभ्यः कषायेभ्य एव भवति / तत एव च DIP.P.AC. Gunratnasuri M.S. Jun Gun Aaradhakrust