________________ // 79 // ___ आगमो- KI तामतिमत्वेन नास्तिका व्युत्पादिताः / अत एवास्तिकवत्स्वतन्त्रं व्युत्पादितो नास्तिकशब्दः,परं जीवति / पञ्चसूत्रद्धारकृति अजीवीत् जीविष्यतीति च जीव इत्यौणादिके व्युत्पादितो जीवशब्दोऽत्र ग्राह्यः। तेन जीवशब्देनैव KI वार्तिकम् H परलोकगतागतकारिजीवपदार्थसिद्धर्भवान्तरसिद्धिमकृत्वैवानादिर्जीवस्य भव इति प्रतिपादितं / भवो हि सन्दोहे शरीरधारणं, शरीरं च नावीनमुत्पद्यते, शरीरवीनं कार्मणाख्यं शरीरमेव, तद्धि स्वस्यान्येषां च शरीराणामाधारभूतं, कार्मणं च प्रवाहेणानादिमदेव / ततश्च तद्धारकजीववत्तदप्यनादि / ततश्च तत्कार्यभूतो भवोऽप्यनादिरेव / यथा चैकमपि बीनं दृष्ट्वा तत्त्ववेदिनो बीजाडरयोः स्वतन्त्रं परस्परं च कार्यकारण रूपतां पुरस्कृत्यानादि सन्ततिं स्वीकुर्वन्ति, एवमेव कर्मणामपि दृष्ट्वा तत्सन्तति तज्जन्यां भवसन्ततिं चावश्यति तयाऽनादिरूपेण स्वीकुर्युरिति युक्तमुक्तं-'अनादिर्जीवः * अनादिर्भवः अनादिः कर्मसंयोगश्च ति। . . ....... ननु कर्मणां स्थितिरेवोत्कृष्टतः सप्ततिकोटीकोटीसागरोपममितैवेति कथमनादिता कर्मण इति चेत् / A . सत्यं, अत एव संयोग इति पदं, यतः प्रवाहेण तेषां तेषां कर्मणां संयोग आत्मभिरनादिकः, भिन्नानामपि कर्मणां संयोगस्त्वात्मनैव, स चाभूतपूर्वो नेत्यनादिक इति / ननु कर्मणां पुद्गलाश्चतुःस्पर्शाः, भवावतारास्पदानि शरीराणि सुखदुःखानुभवहेतवश्च पुद्गला | अष्टस्पर्शा इति कथं परस्परं घटकतेति चेत् / . सत्यं, बद्धानां कर्मणामबाधाकालव्यपगमे यदोदयो जायते, तदा तद्योग्यान् द्रव्यभवभावानाश्रित्यैव जायते, परं यथाकमैंव वेदनं जायते इति कर्मसंयोगेन निर्वतितोऽयं भव इति अनादिकर्मसंयोगनिर्वतितोऽयमनादिर्जीवस्य भव इति कथ्यते / कर्माणि हि शरीरादिद्वारा स्वोदयं दर्शयन्ति, न स्वय| मिति तत्त्वं / विहाय च भवाभिनन्दिनश्चरमावर्तिनो ये जीवास्ते स्वयं भवस्य कर्मक्लेशैरनुबद्धता जन्मनो II P. Ac. Gunratnasuri M.S. 172 / Jun Gun Aaradhak Trust