________________ // 75 // आगमो. 8 भेदानभिधातुमीशा बभूवुः। प्राकृतजनवत् पुण्यं पापं च कर्मतया केवलं जगुः। अत एव तेषां | हरककृति-III ज्ञानावरणीयादीनामाश्रवान् बन्धकारणानि च यथार्थतयोऽविदन्तः कथङ्कारं तेषामाश्रवाणां रोधने प्राग्वद्धानां I पञ्चसूत्र सन्दोहे च निर्जरणे चोपयोगि सम्यग्दर्शनादिकं कथं विद्युर्जगुश्च / एवं श्रीमदहन्तो भगवन्त एव वार्तिकम् सर्वज्ञतयाऽऽत्मादीनां साक्षात्कारं कृत्वा केवलेन तज्ज्ञातमेव जीवादिकं मोक्षावसानं तत्त्वसमूह यथाज्ञातमाचख्युर्भगवद्गणधरादीन् प्रति, तत एवावश्यके नन्यां च केवलाधिकारेऽपि 'केवलनाणेणऽत्थे गाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो'त्ति स्पष्टतयोच्यते / तथा च ये केवलज्ञानवन्तः सन्तः केवलेनैव ज्ञातान् जीवादीन् पदार्थान वीतरागतया यथाज्ञातानेवाचख्युस्त एव यथास्थितवस्तुवादिनः, IN एवम्भूताश्च श्रीमदहन्तो भगवन्त इति तनमस्क्रिया। अन्यतीर्थीया यथा श्रीमतामर्हतां भगवतां देवत्वेन | त्रिलोकीमान्यानां तीर्थेशत्वमनुसृत्य स्वं प्रतिबिम्ब पूज्यतापदवीमानयन्तोऽपि नासानियतदृष्टयास्यप्रसन्नताचक्षुनिर्विकारतापर्यङ्कशयितादिकं देवलक्षणं न तस्मिन्नादर्तुं शक्ता जाताः, तथा भगवतामर्हतामेव / साक्षात्केवलेनालोक्य कृतां तत्वदेशनामपि नानुचक्रुः। प्राक् तावद् भगवद्भिरर्हद्भिर्जीवाजीवरूपं तत्त्वद्वयमेव निर्दिष्टं, तद्द्वयस्य जगति सदा परस्परविविक्तस्वरूपतया भावात् , तदतिरेकेण तृतीयस्य II कस्यापि पदार्थस्य अभावात् / विद्यमानयोरेव याथातथ्येन प्ररूपणेनैव यथास्थितवस्तुवादिता।। | कल्पितानां पदार्थानां युक्त्या प्रसाध्यापि स्थापना तुरङ्गशृङ्गोत्पादसमानैव / उपदिष्टयोश्च जीवाजीवतत्त्वयोः | केचित्तथाविधा जीवा एवावबुध्येयुः सभेदप्रभेदी जीवाजीवौ जीवानां शुद्धस्वरूपं तस्याविर्भावतिरोभावत| जनकहेतुसमुहं च / ततोऽदग्धदहनन्यायेन प्रभूतानां तथाविधबोधवर्जितानां जीवानामुपकारायोपादेयतया // 5 // मोक्षं, तत्साधनतया संवरनिर्जरे, तद्बाधकतया चाश्रववन्धौ च निरूपणीयावेव / तथा परमार्थरूपां II .P.AC. Gunratnasuri M.S. Jun Gun Aaradhak