________________ पश्चसूत्र आगमो क्षीणज्ञानावरणीयस्य स्यादेव केवलवत्त्वं सायं चेति / सार्वयाभावे ह्यहंप्रत्ययग्राह्यस्य शब्दादिरहितद्वारककृति-II स्यात्मनः सुखदुःखवेदनानुमेयस्य सातासातकर्मण एवमादीनामनेकानामलौकिकप्रत्यक्षगम्यानामध्यक्षज्ञानं ID वार्तिकम् | न स्यात् / अनुमानगम्यत्वमप्येषां प्रत्यक्षदर्शिनिर्दिष्टसम्बन्धानुसार्येवेति / सर्वमपरिशेष द्रव्यक्षेत्रकालभाव- 1 सन्दोहे | विशिष्टं द्रव्यपर्यायात्मकं सामान्यविशेषरूपं वस्तु जानन्तीति सर्वज्ञाः / एतानपेक्ष्यैव 'मानाधीना मेय॥७३॥ सिद्धि'रिति नियमः, तदज्ञातस्यासन्चात् अनाद्यनन्तपदार्थगोचरत्वाच्चैतज्ज्ञानस्यानाद्यनन्ततया ज्ञानं, समन्ततो ज्ञातस्यापि वृत्तस्य नाद्यन्त्यभागव्यपदेशस्तथारूपत्वादेव वृत्तस्येति / किञ्च-द्रव्याणामनाद्यनन्तत्वाभावेऽनुपादान|स्योत्पत्तिः निरन्वयो विनाशश्च प्रसज्यते / द्रव्याण्यपेक्ष्यैव च 'नासतो जायते भावो नाभावो जायते सत' इति ISI | विद्वत्पर्षत्सु गीयते इति / एताभ्यां च द्वाभ्यां विशेषणाभ्यां श्रीमदहतां भगवतामाप्तत्वसिद्धिर्दर्शिता। | यत आप्तिमन्त आप्ताः, आप्तिश्चात्यन्तिकी हानिर्दोषाणां, दोषाश्च रागद्वेषमोहा अज्ञानं च, क्षीणमोही / भूत्वा यथार्थ सार्वयमाप्तानां नैकोऽप्येषां मध्यादोषो भवति / सिद्ध चाप्तत्वे तद्वचनानां निस्संशयं / / प्रामाणिकता गीयते / न च साश्येन वक्तृता विरुध्यते. यथार्ह श्रोतृणां प्रतिबोधायारक्तद्विष्टतया | जीवादीनां तत्त्वानां ज्ञेयहेयोपादेयधर्मवतामुपदेशे वाधालेशस्याप्यनवकाशात् / अन्यथा गमनागमनादीना मपि. विरुद्धतामसङ्गात्, अलौकिकसर्वप्रत्यक्षगम्यानां जीवपुण्यपापस्वर्गनरकमोक्षादीनां ये प्रतिपादका | आगमास्तेषां सर्वेषां कल्पितत्वप्रसङ्गात् / एवं क्षीणकषायतायाः सर्वज्ञतायाश्चाऽऽख्यानेन श्रीमदर्हतां भगवतां | सम्पूर्णा स्वार्थसम्पत्तिः प्रतिपादिता। जगति च गुणसम्पदामधिगमे एतदेव बीज-यद् गुणवतां पूजाबहु| मानभक्त्यादि क्रियते, विशेषतश्च गुणसम्पदथिनो देवा इति योग्यमुक्तं 'देवेन्द्रपूजितेभ्य' इति / यद्यपि DI | देवेन्द्रानुवृत्त्यादिभिः कारणैः सर्वैरपि भवनवास्यादिभिर्देवैरप्यर्हन्तो भगवन्तो जन्मादिषु कल्याणकेषु P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust