________________ आगमो द्वारककृति: सन्दोहे // 72 // वाच्यानां षण्णामर्थानां सम्पदाक्रमेण वाच्यत्वात् आदिकरत्वादीनि विशेषणानि पश्चादुक्तानि / अत्र तु स्वतन्त्रतया भावार्हन्त्यनिवन्धनानामतिशयानां चतुर्णां वाच्यत्वात् प्रागेव विशेषणानि / यद्यपि भगवच्छन्देन पञ्चसूत्रभावार्हन्त्यमागच्छेत् परं च्यवनादामाक्षगमनमपि भावार्हन्त्याभिगमपक्षे कैवल्यदशावर्तिभावाईत्परिग्रहाया-A वार्तिकम् वश्यकानि वीतरागादीनि चत्वारि विशेषणानीति / यद्यपि उपशान्तमोहावस्थायामस्ति वीतरागता, परं ! न सात्र, यतः प्रतिपातपर्यवसाना सा। न च जिनानां छाद्मस्थ्येऽपि तथाप्रतिपातितेति क्षपकश्रेणिजन्यैव वीतरागावस्था स्वरूपतो ग्राह्या / किश्च-वीतरागतेयं सर्वज्ञताप्रापणप्रत्यला ग्राह्या, पुरतः सर्वशेभ्य इत्युक्तेः / सार्वश्यं च क्षीणमोहानामेव वीतरागाणां भवतीति क्षीणमोहवीतरागतैव वीतरागपदेन | ग्राह्येति / सूर्योदये उदितेऽरुणोदयकथनं निष्प्रयोजनं यथा, ततः पूर्व तस्यावश्यम्भावात् / इत्थमेव मायालोभरूपरागस्य क्षयात् प्रागेव क्रोधमानरूपस्य द्वेषस्य हास्यादिषट्करूपस्य मोहस्य च क्षयोऽवश्यं भवतीति वीतद्वेषमोहवचनेन न कोऽप्यर्थः कोविदानां, तथापि स्वरूपदर्शनार्थमितरतीर्थीयदेवतानां च व्यवच्छेदार्थ / यदि च वीतद्वेषवीतमोहोक्तेरावश्यकता तर्जुपलक्षणतया वीतद्वेषवीतमोहता. ग्राह्या, उपलक्षकता च वीतरागपदस्य रागक्षयात् प्रागवश्यं तयोः क्षयस्य भावात् , मोहादित्रिकस्य क्षय एव सार्वस्योत्पत्तेरिति / यद्यपि सर्वज्ञविशेषणेन विशेषितेषु भगवदर्हत्सु नाथों वीतरागपदेन, सार्वश्यात् / प्रागवश्यं वीतरागताया भावात् , परं मुधा सर्वज्ञतावा दिनां निरासाय सर्वज्ञताया अवश्य पूर्वभावि| तायाः 'केवलियनाणलंभो नन्नत्थ खए कसायाण'मितिवचनादर्शनायैव वीतरागेति पदमुक्तमावश्यक च तदिति / सहचरत्व नियमात् सर्वदर्शिभ्य इत्यपि। साकारोपयुक्तस्य लन्धिप्राप्तेरादौ सर्वज्ञत्वं, विशेष| गुणो हि ज्ञानमात्मन इति सर्वज्ञत्वोपन्यासः, आत्मनो ज्ञानमयत्वात् केवलज्ञानस्यैवात्मखरूपत्वाच | // 72 // W P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Irni.