________________ // 66 // पर्यवसानपदार्थावलोकनपटुकेवलज्ञानज्ञाफ्तिं / अन्यच तदभावे भवस्य कर्मणो का निर्हेतुकल्याऽसम्भवः / __ आगमो वीजाकुरवदनादिसन्ततिर्भवकर्मणोः, नासतां प्रादुर्भाको द्रव्याणां, न च सतां नाश इति जीवद्रव्याणां पञ्चसूत्रभारतिय सिद्धेऽनादित्वे भवकर्मसंयोगयोरनादित्वं स्वभावसिद्ध, सिद्धेश्वेतेषु च त्रिषुः भवस्य दुःखरूपफलानुवन्धिता- 1 वासिकम | निर्धारणं न दुष्करं, तथा. चैतन्छूद्धानसारमेव जैनशासन; एवं श्रद्धानं अनन्तानुवन्धिदर्शनमोहानां / सन्दोहे करणत्रयेण भेदे जाते एव सम्यक्त्वे एव भवति, परप्रवादिभिः कथचिदनुकृत एतावानुपदेशः / ततश्च परप्रवादवासितान्तःकरणानामप्यादिधार्मिकाणामल्पायासेन खसमये आक्षेपः, आदावाक्षे-पिण्या एव II प्रयोगो हितकर इति तदृक्तिः। विक्षेपण्यास्तु वैकल्पिकं हित। तत एव च न | कुदेवनास्तिकादीनां व्युदासोऽधिकृतः। यच व्यवच्छेदप्राधान्येन व्याख्यानक्रिया क्वचिदेताशे | प्रसङ्गे सा न विक्षेपिका, परस्पर व्यवच्छेयव्यवच्छेदकत्वोक्तेर्गुणाधिकस्तुतावेव तस्यास्तात्पर्याद, IP लोकोद्योतकरव्याख्यावदिति / लौकिकानामपि कर्मसंयोगतन्निर्वर्तितदुःखादि सम्मतमस्ति / तत एव च / विपाकक्षमाया लौकिकतयाऽऽख्यानं सङ्गच्छते। एताकमात्रश्रद्धाने जीवास्तित्व-तनित्यत्व-कर्मकर्तृत्व-तो- 1 क्तृत्वलक्षणानि चत्वार्यास्तिक्यस्थानान्यधिगतानि भवन्ति / तत्त्वेष्वपि जीवाजीवाश्रक्वन्धलक्षणानि तत्त्वानि || समधिगतानि भवन्ति, परमेतावानुपदेशः सिद्धानां जीवकर्मतत्संयोगतजदुःखानां दर्शनपरः। यथा il चादर्श समं प्रतिबिम्बितं भवति, स्थान संसारः प्रतिविम्बितः, परं हितोपदेशकता नैतावता पर्याप्यते, किन्तूपादेयहेयानां पदार्थानां हेतुस्वरूपफलानुक्धा चेत् ज्ञाप्यन्ते, छद्मस्थज्ञानानां विशेषेणहेयोपादेयहा| नोपादानप्रवृत्तिफलत्वात् / अत एव च जीवाजीवमात्रमनुक्त्वा शासने आश्रवादीनां मोक्षान्तानामुपदेशादि। अत एव भवस्य दुःखस्वरूपत्वाद्युक्त्वा हेयोपादेयपदार्थस्वरूपादिदर्शनार्थमाह-'एयस्सा णं वोच्छित्तीत्यादि। Jun Gun Aaradhak Trust // 66 // P.P.Ad Gunratnasuri M.S. BON