________________ NO 63 // आगमो- ISI मादिधार्मिकाणां शास्त्रसम्यक्त्वं तदर्थ च तत्तत्तन्त्रपरिभावनं, तन्त्राणां च शुद्धिर्वक्तशुद्धिसाध्येति स || पञ्चसूत्रहारककृति भावार्हन्त्यनिबन्धनातिशयचतुष्टयवत्तया भगवतामर्हतां नमस्कारः। एवं च नात्र प्रेक्षापूर्वकप्रवृत्तिमतां वार्तिकम् हिताय कथयितुं योग्यस्यानुबन्धचतुष्टयस्यावयवरूपेण मङ्गलतयाऽयं नमस्कारः, किन्तु शास्त्रसम्यक्त्वार्थ / सन्दोहे तन्त्रपरिभावनस्यावश्यकत्वात् तद्वक्तशुद्धिज्ञापनपूर्वकभगवदहत्प्रणिधानार्थोऽयं नमस्कारः। अत एव च | 'जे एवमाइक्खती'त्येवंरूपमग्रेतनं यत्पदाङ्कितं प्रोक्तस्वरूपभगवदहदुद्देशकं सूत्रमिति / तथाच नैष समग्रप्रकरणस्य पापप्रतिघातगुणवीजाधानरूपस्याद्यस्य सूत्रस्य वा मङ्गलार्थको नमस्कारः, किन्तु जीवस्याना- 1 दिकतादिप्रतिपादकतंत्रस्य सम्यपरिभावनार्थ तद्वक्तृशुद्धिज्ञापनार्थोऽयं भगवदर्हत्स्वरूपनिरूपणपूर्वको | नमस्कार इति प्रमोदभावनास्थानमेवतेऽर्हन्त इत्यादरस्यावश्यकतादर्शनार्थ च नमस्कारः, गुणवदुपबृंहणादेरकरणस्यैव दर्शनाचारातिक्रमरूपत्वात् , तथाविधोऽपि कृतो नमस्कारः 'एसो पंचनमुक्कारो' त्यादिना सर्वपापनाशप्रथममङ्गलहेतुतयाऽऽर्षसमाजे निश्चितत्वाद्विघ्नविद्रावणेष्टसिद्धिहेतुर्भवत्येव, यथा कश्चिदप्येकमर्थ-12 माश्रित्य कृतो दीपोऽर्थान्तरप्रकाशायोपयोगी भवत्येव, तथा प्रमोदार्थकोऽप्येष नमस्कारो मङ्गलार्थको | भवत्येव / 'जे एवमाइक्खंती'तिनिर्देशाद् भगवदर्हत्स्वरूपख्यापनार्थमेवैतत् सनमस्कारमपि सूत्रमिति | धीधनैः सूक्ष्मधियोद्यमिति / तार्किकाणां वचनविश्वासेनैव वक्तुर्विश्वास इति सम्भवेऽपि यदत्रादौ वक्तुर्भक्त्युत्पादनाय विश्वासस्योत्पादस्तदादिधार्मिकत्वेन श्रद्धाप्रधानत्वात् / अत एव चोद्देशात्नाग्निर्देश इति / एवं भगवत्स्वईत्सत्पाद्य वक्तृषु विश्वासमथ तद्वचनमाह-'जे एवमाइक्खंती'त्यादि / एकस्यैवाईत एकदा भावे वक्तुरप्येकाकिन एव भावेऽपि यदत्र 'जे एवमाइक्खंतीति बहुवचनं,, तत्- 'नानीदृशं I कदाचिजगदिति न्यायात् सर्वदा जगतो जीवादिमयत्वात् सर्वकालीना अपि भगवन्तोऽर्हन्तोऽविषमरूपP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trul!