________________ 1959 // आगमो- मूलत्वात् सर्वासु प्रार्थनासु एषैवाहदादिभिः संयोगस्य या प्रार्थना सा सुप्रार्थना / तत आह-'होउ मे पञ्चसूत्रद्वारककृति- | एसा सुपत्थणे'ति / अत्रोपलक्षणात् स्यात् सिद्धानां ग्रहणमईद्वदेवान्यूनातिरिक्तदेवस्वरूपवत्वात्तेषां, परमे-HI वार्तिकम ष्ठिपञ्चके तेषामर्हद्भिः सहोच्चाराच, परं भवातीतत्वेनाशरीरत्वात् संयोगस्तैर्न भवतीति पूज्यानामप्येषां / सन्दोहे नात्रोपलक्षणतया ग्रहणं, गुरुकल्याणमित्रशब्देन चाचार्योपाध्यायसाधुरूपं पदत्रयं परमेष्ठिगतं गृह्यत A एव। यद्यप्युभयावधारणेन सम्यग्दर्शनज्ञानचारित्रतपांसि धर्मः प्रतिबन्धककर्मापगममाप्यमोक्षहेतुतया च सम्यग्दर्शनज्ञानचास्त्रिाण्येव मोक्षमार्गः, परं स धर्मो मार्गश्च नाधेयमन्तरेण स्वतन्त्रतयाऽमूर्तत्वाद्भवतः, / अतस्तत्वतः परमेष्ठिपञ्चक एव धर्मस्तद्गतत्वाच्च तत्संयोग एव धर्मस्य संयोग इति चेतसिकृत्याईदादि संयोगमार्थनाया एव सुमार्थनत्वमभिमतम् / एवं चात्र सम्यग्दर्शनादीनाम् आराध्यत्वं, पूज्यत्वोपेतं तु परमाराध्यत्वमहदादीनामेवेति पूज्याराध्योभयधर्मवतामहदादीनां संयोगप्रार्थना, तस्या एव सुपार्थनात्वं / चेति / यद्यपि अईदाद्याः परमेष्ठिनो जगतः समग्रस्यापि कल्याणावहाः यथास्थिता जगद्गुरवच, यतस्त IN एवाष्टादशदेश्यभाषाव्यामिश्रयाऽर्धमागध्या जीवादितत्त्वनिदेशका, येनाऽऽबालगोपालं तत्त्वमार्ग प्रतिपद्यन्ते, 57 INI परं तु कतिचिद्विद्वद्गम्यया संस्कृतया तत्त्वमाचक्षाणा न जगद्गुरुत्वमार्गेऽपि / परं न ते परमेष्ठिनो lil | विद्यमानमात्रत्वेन जगतः कल्याणावहाः, किन्तु भक्तिबहुमानपूजादिविषयं प्रापिता एव कल्याणावहाः / / अत एव च महत्त्वेऽप्यर्हता तेभ्योऽपि भक्त्यादेरतिशयेन महत्त्वम् / तत एवं परमेष्ठिमन्त्रे 'नमोऽर्हद्भ्य' इत्यादौ नमस्कार्येभ्यो नमस्कारस्य प्राक् पाठः / अत एवं प्राप्याह-'होउ मे इत्य बहुमाणो'त्ति। बहुमानचान्तरः प्रतिबन्धः। सत्येवास्मिन सेवाभक्त्यादीनां प्रशस्यता, सति च बहुमाने सेवादेर्भावेऽभावेऽपि अतिशयितस्य फलस्य प्राप्तिः, बहुमानरहितस्य तु सेवादयो जायमाना अपि पालकवद् द्रव्यफल // 159 // Ac.Gunratnasuri M.S. Jun Gun Aaradhak Trust