________________ सन्दोहे RA आगमो. ततः सुष्ठ्वेवोक्त-गहें सूक्ष्म वा बादरं वेति / पापं च बद्धमेव ज्ञानघ्नादीनां पापप्रकृतीनामबद्धत्वा- INI पञ्चसूत्र द्धारककृति भावात् / बन्धश्चाश्रुतानां कर्मणामेव, नानाश्रुतानि बध्यन्ते कर्माणि, आश्रवश्च कायवामानसकर्मैव 'मनोवाक्कायकर्मयोगः स आश्रव' इति वचनात् / योगानां प्राप्तिर्यद्यपि कायवाङ्मानसक्रमेण, पर्याप्तीनां तथाक्रमत्वोत् परं यथाक्रमं गुर्वाश्रवत्वाद्योगानां कायवाङ्मनःक्रमेण / अत एव कर्मग्रन्थेष्वेकेन्द्रियादिभेदेनापि कर्मबन्धस्थित्यादिनां भेद आमतः। अत्रापि तत्क्रममाश्रित्याह-'मनसा वाचा कायेने ति। न हिD कश्चिदप्यङ्गी व्यतिरिच्य योगत्रयीमाशृणोति कर्म, बध्नाति वा पापम् / तत एव भगवतां सिद्धानां | भवावतारस्याभावः, तेषां योगाभावादाश्रवबन्धवेदनानामभावः / पापस्य ह्याश्रवोऽशुभयोगादिह जायते 'अशुभः पापस्य तिवचनात् / ततोऽनुक्तमपि प्रकरणात् मनआदीनामशुभत्वं ग्राह्यम् / तथा चाशुमेन | मनसा वचसा कायेन च यत्पापं पापानुबन्धीत्यादि ज्ञेयम्। यथा चान्यतीर्थीयाः अव्रतादीनामाश्रवतां / D नाभ्युपगच्छन्ति तथा केवलं कृतं स्मरन्ति पापं 'कृतकर्मक्षयो नास्ती'त्यायुक्तेः, न तथा जैनाः किन्तु ते 'योगकृतकारिते'त्यादिवचनात् त्रिविधयोगवत्करणान्यपि त्रीणि कृतादीनि पापहेतुषु अभ्युपगच्छन्तीत्याह- IN 'कृतं वा कारित वा अनुमोदितं वेति / पापबन्धप्रमाणं च न मनोयोगादिवद्वैषम्येण, किन्तु कृतादिषु यत्रापि सङ्कल्पस्याशुभस्य तीव्रता, तत्र तीव्रः पापानुबन्धः / अतः सङ्कल्पितहिंसस्य तन्दुलीयकादेः सप्तमश्वभ्रे पातः / कुशलानुबन्धकर्मकारिणश्च जीवा घोररणसङ्ग्रामादिषु विषयेषु च प्रसक्ता अपि शर्करामक्षिकावल्लब्धास्वादा अप्युदयनवत् अपवर्ग साधयितुं समर्था भवन्तीति योगाः करणानि च पापमाशृण्वन्ति, परं तस्य प्रातिकूल्येन ज्ञानघ्नादिरूपेण वेदनं बद्धस्यैव सतो भवति, बन्धश्च कर्मणामा- I // 153 // श्रुतानामपि अनभिव्यक्ताप्रीतिपरपर्यायद्वेषरूपाभ्यां क्रोधमानाभ्यां तथाभूतप्रीतिपरपर्यायरागरूपाभ्यां | M P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust)